CBSE Sample Papers for Class 10 Sanskrit Paper 3 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 3.
CBSE Sample Papers for Class 10 Sanskrit Paper 3
Board | CBSE |
Class | X |
Subject | Sanskrit |
Sample Paper Set | Paper 3 |
Category | CBSE Sample Papers |
Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 3 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.
समय: होरात्रयम्
पूर्णाङ्काः 80
निदेशाः
- प्रश्नपत्रं चत्वारः खण्डाः सन्ति
- खण्ड: (क) अपठित-अवबोधनम् 10 अङ्कः
- खण्ड: (ख) रचनात्मकं-कार्यम् 15 अङ्काः
- खण्ड: (ग) अनुप्रयुक्तव्याकरणम् 25 अङ्काः
- खण्डः (घ) पठित-अवबोधनम् 30 अङ्काः
- सर्वे प्रश्नाः अनिवार्याः।
- प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
- प्रश्नसंख्या अवश्यमेव लेखनीया।
- उत्तराणि संस्कृतेनैव लेखनीयानि।
खण्डः ‘क’-अपठित-अवबोधनम्
प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नान् उत्तराणि लिखत – (10)
क्रिकेट्क्रीडायाः औचित्यविषये यद्यपि अद्यापि विवादाः सन्ति, तथापि तस्याः लोकप्रियता तु प्रश्नातीता एव। तत्रापि अन्तर्राष्ट्रियस्तरे प्रवर्तमाना: स्पर्धाः सर्वान् अपि दर्शकान् मन्त्रमुग्धान् कुर्वन्ति। देशानां मध्ये परस्परं सम्बन्धवर्धने एतादृश्य: स्पर्धाः महती भूमिका निर्वहन्ति। भारतपाकिस्थानयोः मध्ये विवादाः न नूतनाः। आरम्भकालात् एव पाकिस्थानः किमपि कारणं निमित्तीकृत्य भारतं वक्रदृष्टया पश्यति। एतादृश्यां परिस्थित्याम् अनयोः देशयोः मध्ये प्रर्वतमानाः क्रीडास्पर्धाः देशयोः सम्बन्धवर्धने स्वकीयं योगदानं कुर्वन्ति इति वयं जानीमः। एकदा पाकिस्थानं गत्वा भारतीय क्रिकेट्क्रीडकगणेन पारितोषिकेण सह तत्रत्यानां हृदयानि अपि जितानि आसन्।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) कस्याः विषये अद्यापि विवादाः सन्ति ?
(ii) कयो: मध्ये विवादाः न नूतनाः ?
(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
(i) का: अनयोः देशयोः सम्बन्धवर्धने योगदानं कुर्वन्ति ?
(i) पाकिस्थानं गत्वा केन तत्रत्यानां हृदयानि जितानि ?
(III) निर्देशानुसारं उत्तरत – (1/2 × 4 = 2)
(i) गद्यांशे ‘तस्याः’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(ii) “नूतनाः विवादाः” अनयोः पदयोः किम् विशेषणपदम् ?
(iii) ‘पश्यति’ इति क्रियापदस्य कर्ता कः?
(iv) ‘परकीयं’ गद्यांशे अस्य किं विलोमपदं प्रयुक्तम् ?
(IV) अस्य गद्यांशस्य उचितं शीर्षकम् दीयताम्।
खण्डः ‘ख’- रचनात्मकं कार्यम्
प्रश्न 2:
भवान् स्वमित्रम् राहुलं स्व-भगिन्याः विवाहे निमन्त्रणम् दातुम् इच्छति। उत्तरपुस्तिकायाम् मञ्जूषायाः उचितपदैः पत्र पूरयत – (5)
3 देवसरणिः
जयपुरतः
तिथि: ………………
………..(1) राहल!
………:(2) नमोनमः।
अत्र कुशलं तत्रास्तु कामये।
इंद ………. (3) वृत्तं भवन्तं सूचयित्वा अहम् आनन्दम् अनुभवामि यत् मम ……….. (4) विवाहः अग्रिममासस्य दशम्यां …….. (5) बुधवासरे, निश्चितः जातः। वरयात्रा लक्ष्मणपुरात् ………. (6)। अहं त्वां प्रेमपूर्वकं पूर्वतः एवं ज्ञापयामि येन त्वं अत्रे ……….. (7) पूर्वतः एव प्राप्तः स्याः। भवता पितृभ्यां सह अत्र अवश्यमेव …………. (8)। भवतां स्निग्धां सङ्गतिः साहाय्यं च अहं कामये। ………….. (9) पितृभ्याम् सस्नेहं नमोनमः।
तव पत्रोत्तरं ………… (10)।
भवतः प्रियमित्रम्
सुरेशः।
मञ्जूषा- सुहृद्, सप्रेम, तारिकायां, आगन्तव्यम्, प्रीतिदायकं, भगिन्याः, आदरणीयाभ्यां, त्रिचतुर्दिनानि, आगमिष्यति, प्रतीक्षमाणः।
प्रश्न 3:
चित्रम् आधृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया च उत्तरपुस्तिकायाम् संस्कृते पञ्चवाक्यानि लिखत – (2 × 5 = 10)
मञ्जूषा
अन्धः, बालकः, राजपथे, मोटरयानम्, सहायता, पारगमनं, दण्डः, वृद्धः, सावधानेन, मुखम्।
अथवा
‘मम विद्यालयः’ इति विषयमधिकृत्य संस्कृते पञ्चवाक्यानि लिखत।
मञ्जूषा – भवनम्, पुस्तकालयः, अनुशासिताः, विशालं, क्रीडाक्षेत्रम्, तरणतालः, परीक्षापरिणामम्, योग्याः, संगणक” प्रयोगशाला, अध्यापकाः।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
प्रश्न 4:
अधोलिखितेषु वाक्येषु स्थूलपदेषु सन्धिच्छेदम् अथवा सन्धिं कृत्वा लिखत – (4)
- ग्रीष्मे तरु + छायायाम् उपविश।
- इदानीं रामः + टीकते।
- कृपणः धनं सम् + चयति।
- तस्य मातुलः रात्रावगतः।
प्रश्न 5:
अधोलिखितेषु वाक्येषु स्थूलाक्षरपदेषु समासं विग्रहं वा कृत्वा लिखत – (4)
- मम गृहस्य समीपम् आम्रवृक्षः अस्ति।
- बालाः च वृद्धाः च वृक्षस्य छायायाम् उपविशन्ति। .
- गते सप्ताहे क्रीडादिवसः आसीत्।
- नीलकण्ठः हिमालयपर्वते विराजते।
प्रश्न 6:
अधोलिखितेषु वाक्येषु स्थूलपदानां “प्रकृतिः प्रत्ययः” च पृथक् पृथक् कृत्वा अथवा संयोज्य लिख्यताम् –
- मया पत्रं लिख्+ तव्यत्।
- (सेवमानः) नरः दीर्घायुः भवति।
- (शीतल + तल्) चन्द्रस्य गुणः अस्ति।
- कुक्कुरः पुत्रवत् (पाल + अनीयर्)।
प्रश्न 7:
(अ) उत्तरपुस्तिकायाम् मञ्जूषायाम् दत्तैः अव्ययपदैः रिक्तस्थानानि पूरयत – (2)
बहिः, ऋते, अपि, एव
(i) तौ भ्रातरौ ……….. स्तः।
(ii) ………….. ज्ञानात् न मुक्तिः।
(iii) नगरात् ………. नदी वहति।
(iv) मम गृहं ………….. आगच्छ।
(ब) उत्तरपुस्तिकायाम् उचितेन अव्ययपदेन रिक्तस्थानानि पूरयत – (2)
(i) यथा करिष्यसि ………….. भरिष्यसि।
(ii) सः …………… इच्छति तावत् देहि।
(iii) यत्र मिष्ठान्नं …………. मक्षिकाः।
(iv) ……………. अतिवृष्टिः भवति तदा जलप्लावनम् भवति।
प्रश्न 8:
अधोलिखितेषु वाक्येषु वाच्यपरिवर्तनं कृत्वा उत्तरपुस्तिकायाम् लिखत – (3)
- सः पुस्तकं गृह्णाति। ………….. पुस्तकं गृह्यते।
- बालकाः पादकन्दुकेन क्रीडन्ति। बालकैः पादकन्दुकेन …………।
- पिता संगीतम् शृणोति। ……….. संगीतम् श्रूयते।
प्रश्न 9:
घटिकां दृष्ट्वा उत्तरपुस्तिकायाम् लिखत यत् त्वम् कतिवादने किम् करोषि? (2)
- अहं (5.30) …………. उत्तिष्ठामि।
- अहं (10.15) ………….. महाविद्यालयं गच्छामि।
प्रश्न 10:
अशुद्धिशोधनम् – (4)
वर्षायाम् जनाः सर्वत्र हरीतिमां पश्यति। वर्षेसु भ्रमणं आनन्ददायकं भवति। सर्वाः जनाः वर्षायाः स्वागतं कुर्वन्ति। त्वम् अपि वर्षायाः अभिनन्दनं करोतु।
खण्ड: ‘घ’-पठित-अवबोधनम्
प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा एतदाधारितानाम् प्रश्नानाम् उत्तराणि लिखत – (6)
कस्मिश्चित् नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म। तस्य पुत्राः वानरक्रीडारताः वानरयूथं नित्यमेव विविधैः भोज्य-पदार्थैः पुष्टिं नयन्ति स्म। तस्मिन् राजगृहे बालवाहनयोग्यं मेषयूथम्आसीत्। तेषां मेषाणां मध्ये एको मेषः जिवालोलुपतया अहर्निशं महानसं प्रविश्य यत् पश्यति तद् भक्षयति। ते च सूपकाराः यत्किञ्चित् काष्ठं, मृण्मयं भाजनं, कांस्यताम्रपात्रं वा पश्यन्ति तेन तम् आशु ताडयन्ति स्म।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) राजगृहे कीदृशं मेषयूथम् आसीत् ?
(ii) मेषं के ताडयन्ति स्म?
(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
जिवालोलुपतया मेषः अहर्निशं किं करोति स्म?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘मृण्मयं भाजनं’ अनयोः पदयोः विशेषणपदं किम् ?
(ii) अस्मिन गद्यांशे ‘तस्य’ इति सर्वनाम कस्मै प्रयुक्त: अस्ति?
(iii) ‘अनयन्’ इति अर्थे किम् क्रियापदं प्रयुक्तम् ?
(iv) ‘पश्यन्ति’ इति क्रियापदस्य कर्तृपदं किम् ?
(आ) अधोलिखितं संवादम् पठित्वा प्रश्नानाम् उत्तराणि लिखत – (6)
हिमांशुः – अस्माभिः ‘मिथुन’ इति विषये अपि किञ्चिद् श्रुतम्। किं तत् ?
पर्यटनाधिकारी – ‘मिथुनः’ गोमहिषसदृशः एकः विशिष्टः राजपशुः अस्ति।
शोभा – वयम् अत्रत्यानाम् ऐतिहासिकस्थलानां विषये ज्ञातुम् इच्छामः।
पर्यटनाधिकारी – मया पूर्वम् एव उक्तं यत् अस्य प्रदेशस्य दर्शनीयस्थलानां दर्शनाय विशेषः प्रबन्धः अपि अस्ति। अधुना तु वयम् अनेन प्रक्षेपकयन्त्रेण केषाञ्चित् स्थालानां परिचयं प्राप्स्यामः। पश्यत एतत् चित्रम्।
राजीवः – किम् एतत् कस्यचित् दुर्गस्य चित्रम् ?
पर्यटनाधिकारी – आम्। एतत् दिवांग-उपत्यका-मण्डले स्थितं भीष्मकनगरदुर्गम्।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) गोमहिषसदृशः कः विशिष्ट: राजपशुः अस्ति?
(ii) वयम् केषाम् विषये ज्ञातुं इच्छामः?
(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
प्रक्षेपकयन्त्रेण वयं किं करिष्याम: ?
(III) निर्देशानुसारम उत्तरत – (1/2 × 4 = 2)
(i) ‘विशिष्टः राजपशुः’ अनयोः पदयोः किं विशेषणपदम् ?
(ii) अस्माभिः’ इति सर्वनाम पदम् कस्मै प्रयुक्तम् ?
(iii) ‘प्राप्स्यामः’ इति क्रियापदस्य कर्तृपदं किम् ?
(iv) ‘इदानीम्’ इत्यर्थे अत्र किम् अव्ययपदं प्रयुक्तम् ?
(इ) अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत – (6)
अपूर्वः कोऽपि कोषोऽयम् विद्यते तव भारति!
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) कस्याः कोष: विद्यते ?
(ii) व्ययतः किम् आयाति ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
एषः कोषः कथम् वृद्धिम् क्षयम् च आयाति?
(III) निर्देशानुसारम उत्तरत – (1/2 × 4 = 2)
(i) ‘तव’ सर्वनाम कस्मै प्रयुक्तः?
(ii) अस्मिन् श्लोके ‘सरस्वत्यै’ किम् अपरम् पदम् प्रयुक्तम् ?
(iii) ‘कोषः’ इति विशेष्यपदस्य अत्र किम् विशेषणपदं प्रयुक्तम् ?
(iv) विद्यते इति क्रियापदस्य कर्तृपदं किम् ?
प्रश्न 12:
अधोलिखितश्लोकयोः अन्वयं उत्तरपुस्तिकायाम् उचितपदक्रमेण सम्पूरयत – (1/2 × 8 = 4)
(अ) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
स हेतुः सर्वविद्यानाम् धर्मस्य च धनस्य च॥ .
अन्वयः- (i) …………… क्रमशः घटः पूर्यते, (ii) …………….. धर्मस्य च (iii) …………. च स (iv) …………….।
(ब) धनस्य नि:सारलघो: स सारो यद् दीयते लोकहितोन्मुखेन।
निधानतां याति हि दीयमानम्, अदीयमानं निधनैकनिष्ठम्॥
अन्वयः- नि:सारलघो: (i) …………. सः सारो यद् (ii) …………… दीयते। दीयमानम् (iii) ………….. याति (iv) ……………. निधनैकनिष्ठम्॥
मञ्जूषा- सर्वविद्यानाम् धनस्य, लोकहितोन्मुखेन धनस्य, हेतुः, निधानतां, जलबिन्दुनिपातेन, अदीयमानम्।
प्रश्न 13:
अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत – (4)
- पिता सुतात्र शैशवे विद्याधनं यच्छति।
- राजहंसः काकस्य ध्वनिं श्रुत्वा व्याकुलः भवति।
- सूर्यम् विना कालस्य गणना न भवति।
- दुष्टबुद्धिः सर्वचनानि अत्यजत्।
प्रश्न 14:
अधोलिखितासु पंक्तिषु स्थूलाक्षरपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थम् चित्वा उत्तरपुस्तिकायाम् लिखत – (4)
I. हेयम् अपि च किम् ?
(i) हिमालयम्
(ii) त्याज्यम्
(iii) गेयम्
II. प्रत्येकम् अयनस्य अवधिः ………।
(i) अवधप्रान्ते
(ii) लोकभाषा
(iii) समयः
III. प्रमाथि बलवदृढम्।
(i) खादनशीलं
(ii) मन्थनशीलम्
(iii) ज्वलनशीलम्
IV. यो मोहात् केवलं परिदेवयेत्।
(i) प्रभासते
(ii) विलपयेत्
(iii) प्रसन्नः भवेत्।
उत्तराणि
खण्डः ‘क’-अपठित-अवबोधनम्
उत्तर 1:
I. (i) क्रिकेट्क्रीडायाः
(ii) भारतपाकिस्थानयोः
II. (i) अनयोः देशयोः मध्ये प्रवर्तमानाः क्रीडास्पर्धा अनयोः सम्बन्धवर्धने योगदानं कुर्वन्ति।
(ii) एकदा पाकिस्थानं गत्वा भारतीयक्रिकेटक्रीडकगणेन पारितोषिकेण सह तत्रत्यानां हृदयानि अपि जितानि।
III. (i) क्रिकेट्क्रीडायै
(ii) नूतनाः
(iii) पाकिस्थानः
(iv) स्वकीयं
IV. क्रिकेट्क्रीडा; क्रिकेट्क्रीडायोः लोकप्रियता
खण्डः ‘ख’- रचनात्मक कार्यम्
उत्तर 2:
- सुहृद्
- सप्रेम
- प्रीतिदायकं
- भगिन्याः
- तारिकायां
- आगमिष्यति
- त्रिचतुर्दिनानि
- आगन्तव्यम्
- आदरणीयाभ्यां
- प्रतीक्षमाणः
उत्तर 3:
- इदं राजपथस्य दृश्यम् अस्ति।
- राजपथे द्वे मोटरयाने अपि स्तः।
- एका अन्धवृद्धा मार्गम् पारगमने असमर्था अस्ति।
- एकः छात्रः दण्डसहायतया वृद्धां पारं नयति।
- पृष्ठतः सघनाः वृक्षाः सन्ति।
- अनुशासनप्रियः छात्रः यातायातनिर्देशं पालयति।
अथवा
‘मम विद्यालयः’
- मम विद्यालय: दिल्ली नगर स्थितः अस्ति।
- अस्य भवनम् अति विशालम् अस्ति।
- अत्र योग्याः अध्यापकाः अनुशासिताः विद्यार्थिनः च सन्ति।
- अत्र पुस्तकालयः, तरणतालः, संगणक प्रयोगशाला अपि अस्ति।
- तत्र एकं विशालं क्रीडाक्षेत्रम् अपि अस्ति।
- विद्यालयस्य परीक्षा परिणामम् उत्तमं भवति।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
उत्तर 4:
- तरुच्छायायाम्
- रामष्टीकते
- सञ्चयति
- रात्रौ + आगतः
उत्तर 5:
- उपगृहम्
- बालवृद्धाः
- सप्तानां अहनानां समाहारः
- नीलं कण्ठं यस्य सः
उत्तर 6:
- लेखितव्यम्
- सेव् + शानच्
- शीतलता
- पालनीयः
उत्तर 7:
(अ) (i) एव
(ii) ऋते
(iii) बहिः
(iv) अपि
(ब) (i) तथा
(ii) यावत्
(iii) तत्र
(iv) यदा
उत्तर 8:
- तेन
- क्रीड्यन्ते
- पित्रा
उत्तर 9:
- सार्धपञ्चवादने
- सपाददशवादने
उत्तर 10:
- पश्यन्ति
- वर्षासु
- सर्वे
- कुरु
खण्डः ‘घ’-पठित-अवबोधनम्
उत्तर 11:
(अ) I. (i) बालवाहनयोग्यम्
(ii) सूपकाराः
II. जिवालोलुपतया मेषः अहर्निशं महानसं प्रविश्य यत् पश्यति तद् भक्षयति स्म।
III. (i) मृण्मयम्
(ii) भूपतये
(iii) नयन्ति स्म
(iv) सूपकाराः
(आ) I. (i) मिथुनः
(ii) ऐतिहासिकस्थलानां
II. प्रक्षेपकयन्त्रेण वयं केषाञ्चित् स्थलानां परिचयं प्राप्स्यामः।
III. (i) विशिष्टः
(ii) छात्रेभ्यः
(iii) वयम्
(iv) अधुना
(इ) I. (i) भारत्याः
(ii) वृद्धिम्
II. एषः कोषः व्ययतः वृद्धिम् आयाति सञ्चयात् च क्षयम् याति।
III. (i) भारत्यै
(ii) भारती
(iii) अपूर्वः
(iv) कोषः
उत्तर 12:
(अ) (i) जलबिन्दुनिपातेन
(ii) सर्वविद्यानाम्
(iii) धनस्य
(iv) हेतुः
(ब) (i) धनस्य
(ii) लोकहितोन्मुखेन
(iii) निधानतां
(iv) अदीयमानम्
उत्तर 13:
- कदा?
- कस्य?
- कम्?
- कानि?
उत्तर 14:
I. (ii) त्याज्यम्।
II. (ii) समयः।
III. (ii) मन्थनशीलं
IV. (ii) विलपयेत्।
We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 3 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 3, drop a comment below and we will get back to you at the earliest.