Students must start practicing the questions from CBSE Sample Papers for Class 10 Sanskrit with Solutions Set 5 are designed as per the revised syllabus.
CBSE Sample Papers for Class 10 Sanskrit Set 5 with Solutions
समय : 3 होरा:
पूर्णाङ्का: : 80
सामान्यनिर्देशा:-
- सैंपल पेपर 1 में दिये गये निर्देशानुसार।
खण्ड: – क
(अपठितावबोधनम्)
1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- 10
(निम्नलिखित गद्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।)
सूर्यवंशे सर्वप्रथमं मनुर्नाम नृपः अभवत्। तस्य कुले एव दिलीपः इति ख्यातनामा राजा समुत्पन्नः। राजा दिलीपः सर्वेषां विषयाणां ज्ञाता आसीत् तथापि स: सर्वदा अभिमानरहितः, पराक्रमी, परिश्रमी, क्षमाशीलः आसीत्। दिलीपः न्यायपूर्वक पितृवत् च प्रजापालनं करोति स्म। स: प्रजायाः रक्षणे सर्वदा उद्यतः भवति स्म। अतः सः एव प्रजाया: पिता आसीत्। राजा दिलीप: यदा चिरं सन्ततिं न अलभत तदा तं गुरुवशिष्ठ: सन्ततिं प्राप्तुं कामधेनोः पुत्याः नन्दिन्या: सेवार्थम् आदिशत्। दिलीप: स्वभार्यया सह एकविंशतिः दिवसपर्यन्तं गोसेवाम् अकरोत्। द्वाविंशतितमे दिने एक: सिंहः नन्दिनीम् आक्राम्यत्। दिलीप: गोरक्षायै स्वशरीरं समर्पयितुम् उद्यतः अभवत्। प्रसन्ना नन्दिनी तस्मै सन्तते: वरम् अयच्छत्।
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) 1 × 2 = 2
(एक शब्द का उत्तर लिखिए) (केवल दो प्रश्न)
(i) दिलीप: कया सह गोसेवाम् अकरोत् ?
उत्तर :
भार्यया
(ii) दिलीपः किमर्थ स्वशरीरं समर्पयितुम् उद्यत: अभवत् ?
उत्तर :
गोरक्षायै
(iii) सूर्यवंशे सर्वप्रथम क: नृप: अभवत् ?
उत्तर :
मनु:! मनुर्नाम
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम्) 2 × 2 = 4
(पूर्ण वाक्य में उत्तर लिखिए।) (केवल दो प्रश्न)
(i) गुरुवशिष्ठ: किमर्थ नन्दिन्या: सेवार्थम् आदिशत् ?
उत्तर :
गुरुः वशिष्ठः सन्ततिं प्राप्तुं राजानं दिलीप नन्दिन्याः सेवार्थम् आदिशत्।
(ii) दिलीपः कथं प्रजापालनं करोति स्म ?
उत्तर :
दिलीप: न्यायेन धर्मेण च पितृवत् प्रजापालनं करोति स्म।
(iii) दिलीपः कति दिवसपर्यन्तं गोसेवाम् अकरोत् ?
उत्तर :
दिलीप: एकविंशति-दिवसपर्यन्तं गोसेवाम् अकरोत्।
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।
(इस अनुच्छेद के लिए उपयुक्त शीर्षक संस्कृत में लिखिए।)
उत्तर :
शीर्षकम्- दिलीप : / राजादिलीप : / अथवा अन्यः को ऽ पि समुचितः शीर्षक:
(ई) यथानिर्देशम् उत्तरत-(केवलं प्रश्नत्रयम्) 1 × 3 = 3
(निर्देशानुसार उत्तर दीजिए) (केवल तीन प्रश्न)
(i) ‘आक्राम्यत्’ इत्यस्याः क्रियाया: कर्तृपदं किम्?
(क) दिलीप:
(ख) वशिष्ठ:
(ग) सिंह:
(घ) नन्दिनी
उत्तर :
(ग) सिंह:
(ii) ‘क्षमाशील:’ इति पदस्य विशेष्यं गद्यांशात् चित्वा लिखत।
(क) वशिष्ठ:
(ख) दिलीप:
(ग) पराक्रमी
(घ) सिंह:
उत्तर :
(ख) दिलीप:
(iii) ‘वंशे’ इत्यस्य पदस्य कः परांयः अत्र आगत:?
(क) कुले
(ख) सन्तते:
(ग) चिरम्
(घ) राज्ये
उत्तर :
(क) कुले
(iv) अनुच्छेदे ‘अलसः’ पदस्य क: विपर्यय: आगत:?
(क) क्षमाशील:
(ख) परिश्रमी
(ग) पराक्रमी
(घ) तीव्रगामी
उत्तर :
(ख) परिश्नमी
खण्ड: – ख
(रचनात्मकं-कार्यम्)
खंड ‘ख’ रचनात्मक कार्य में पत्र, चित्र लेखन, अनुच्छेद लेखन और हिन्दी वाक्यों का संस्कृत में अनुवाद आदि से संबंधित प्रश्न दिए गए हैं। जिनके निर्धारित अंक उनके सम्मुख अंकित हैं।
2. भवती मानसी छात्रावासे च वसति । स्वमातरं प्रति लिखितं निमंत्रण पत्रं मञ्जूषापद सहायतया पूरयित्वा उत्तर पुस्तिकायां पुनः लिखत । (1/2 × 10 = 5 अङ्काः)
(तुम मानसी हो और छात्रावास में रहती हो। अपनी माता को लिखे गए निमंत्रण पत्र को मञ्जूषा के शब्दों की सहायता से पूरा करके उत्तर पुस्तिका में लिखिए ।)
दिल्लीत:
दिनाङ्कः …………
पूज्य (i) ………
सादरं चरणस्पर्शः
भवत्याः गत सप्ताहे पत्रं प्राप्तम् ! अहं भवत्याः स्वास्थ्य विषये (ii) ………………. अस्मि! मम पठनं नियमितम् अस्ति ! आगामि नवंबर मासे मम विद्यालयस्य (iii) ………… अस्ति ! अयम् उत्सवः प्रधानाचार्यः मम (iv) ………….. विशिष्ट छात्रस्य पुरस्कारं (v) ……….. अत एव अहम् अपि इच्छामि यत् भवती अपि अत्रागत्य इयम् उत्सवं (vi) ……….. येन मम (vii) ……….अपि भविष्यति ! अतः पूज्यपित्रा सह मम विद्यालये अवश्यमेव (viii) ………. ! भवतो: चरणेषु (ix) …………. अग्रजाय च नमोनमः !
भवत्याः पुत्री
(x)…………..
[मञ्जूषा-प्रणामाः, कृते, दास्यति, माताः, आगच्छतु, वार्षिकोत्सवः, चिन्तिता, पश्यतु, उत्साहवर्द्धनम्, मानसी।
उत्तर:
दिल्लीत:
दिनाङ्कः …………
पूज्य (i) माता:
सादरं चरणस्पर्शः
भवत्याः गत सप्ताहे पत्रं प्राप्तम् ! अहं भवत्याः स्वास्थ्य विषये (ii) चिन्तिता अस्मि! मम पठनं नियमितम् अस्ति ! आगामि नवंबर मासे मम विद्यालयस्य (iii) वार्षिकोत्सवः अस्ति ! अयम् उत्सवः प्रधानाचार्यः मम (iv) कृते विशिष्ट छात्रस्य पुरस्कारं (v) दास्यति अत एव अहम् अपि इच्छामि यत् भवती अपि अत्रागत्य इयम् उत्सवं (vi) पश्यतु येन मम (vii) उत्साहवर्द्धनम् अपि भविष्यति ! अतः पूज्यपित्रा सह मम विद्यालये अवश्यमेव (viii) आगच्छतु ! भवतो: चरणेषु (ix) प्रणामाः अग्रजाय च नमोनमः !
भवत्याः पुत्री
(x) मानसी
3. प्रदत्तं चित्र दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत- (1 × 5 = 5)
[मञ्जूषा: उद्यानम्, धावतः, जनौ, वातावरणम्, नगरस्य, महिला, वृक्षाः, साधारणम्, विशालभवनानि, बसस्थानम्, स्वच्छम्, प्रतीक्षाम्, तिष्ठन्ति, अवकरपात्रम्।]
उत्तरः
चित्रवर्णनम् –
(i) उद्याने दरौ बालकौ स्तः।
(ii) नगस्य बसस्थानं स्वच्छम् असित ।
(iii) उद्याने वृक्षाः सन्ति।
(iv) उद्यानस्य पाश्वे अवकरपात्रम् अस्ति।
(v) उद्यानस्य वातावरणं स्वच्छम् अस्ति।
अथवा
मंजूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेदं लिखत ।
“वृक्षाः अस्माकं मित्राणि” (1 × 5 = 5)
मञ्जुषा
वृक्षाः, सत्पुरुषाः, परोपकारम्, छया, फलानि, पुष्पाणि, जनाः, पवनः, काष्ठम्, शीतलः, स्वास्थ्याय, आवश्यकम्, पथिकः, आनन्दम्, अनुभवन्ति, भूमेः संरक्षणम्, वर्षा, पक्षिभ्यः वासः।
उत्तरः
अनुच्छेद लेखनम्
(i) वृक्षाः परोपकारं कूर्वन्ति।
(ii) ते छया, फलानि, पुष्पाणि, काष्ठानि, मूलानि, त्वकजञ्च यच्छन्ति ।
(iii) शीतलः पवनः स्वास्थ्याय आवश्यकम् अस्ति।
(iv) वृक्षोपरि पक्षिणां वासः भवति।
(v) वृक्षाः वर्षाकाले भूमिसंरक्षंण कूर्वन्ति।
4. अधोलिखितानि वाक्यानि संस्कृतभाषाया अनूद्य लिखत । (केवलं वाक्यपञ्चकम्) (1 × 5 = 5 अङ्काः)
(निम्नलिखित वाक्यों का संस्कृत भाषा में अनुवाद लिखिए |) (केवल पाँच वाक्य)
(i) गाँव के चारों ओर वृक्ष हैं।
Trees are all around in the village.
उत्तर:
ग्रामं परितः वृक्षाः सन्ति ।
(ii) सदा सत्य बोलो।
Always speak the truth.
उत्तर:
सदैव सत्यं वद ।
(iii) राजा सिंहासन पर बैठता है।
The king sits on throne.
उत्तर:
नृपः सिंहासने अधितिष्ठति।
(iv) वह झूठ बोलता है।
He speak lies.
उत्तर:
सः अनृतं वदति।
(v) तुम क्या खा रहे हो?
What are you eating?
उत्तर:
त्वं किं खादसि?
(vi) रवीना भोजन पकाती है।
Raveena cooks food.
उत्तर:
रवीना भोजनं पचति ।
(vii) विक्की खेलने के लिए जाता है।
Vicky goes for playing.
उत्तर:
विक्की क्रीडितुं गच्छति।
खण्ड: – ग
(अनुप्रयुक्त-व्याकरणम्)
5. अधोलिखितवाक्येषु रेखाइ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत-(केवलं प्रश्नचतुष्ट्यम)
(निम्नलिखित वाक्यों में रेखांकित पदों में सन्धि अथवा सन्धि विच्छेद करके लिखिए।) (केवल चार प्रश्न) 1 × 4 = 4
(i) अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत।
(ii) आलस्यं हि मनुष्याणां शरीरस्थ: + महान् रिपुः।
(iii) कश्चित् कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन् आसीत्।
(iv) किश्चित् कालं नय माम् अस्मात् + नगराद् बहुदूरम्।
(v) अयोग्यः पुरुषः नास्ति योजक: + तत्र दुर्लभः।
उत्तर :
सन्धिः सन्धिच्छेद्चः –
(i) अचिरात् + एव
(ii) शरीरस्थो महान्
(iii) क: + चित्
(iv) अस्मान्नगरात्
(v) योजकस्तत्र
6. अधोलिखितवावयेषु रेखाङ्कितपदानां समासं विग्रहं व प्रदत्तविकल्पेभ्यः चित्वा लिखत । (केवलं प्रशनचतुष्टयम्) (1 × 4 = 4)
(i) सः भारवेदनया क्रन्दति स्म।
(क) भारम् वेदनया
(ख) भारस्य वेदनया
(ग) भरेण वेदनया
(घ) भाराय वेदनया
उत्तरः
(ग) भरेण वेदनया
(ii) प्रस्तरतले लतातरुगुल्मा मे भवन्तु पिष्टाः।
(क) लताचतरुःच
(ख) लता च तरवः च
(ग) लताः च गुल्माः च
(घ) लताः च तरवः च गुल्माः
उत्तरः
(घ) लताः च तरवः च गुल्माः च
(iii) रामस्य समीपम् उपसृत्य प्रणम्य च।
(क) उपरामम्
(ख) उपरमेण
(ग) उपरामः
(घ) उपरामस्य
उत्तरः
(क) उपरामम्
(iv) को भेदः पिकः च काकः च तयोः।
(क) पिककाकम्
(ख) पिककाकयोः
(ग) पिककाकस्य
(घ) पिककाकाः
उत्तरः
(ख) पिककाकयोः
(v) विमूढधीः मधुरं न वदति।
(क) विमूढा धौः
(ख) विमूढः धौः
(ग) विमूढाः धियः
(घ) विमूढा धीः यस्य सः
उत्तरः
(ग) विमूढाः धियः
7. अधोलिखितवाक्येषु रेखाइ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेथ्य: चित्वा लिखत-(केवलं प्रश्नचतुष्ट्यम्) 1 × 4 = 4
(निम्नलिखित वाक्यों में रेखांकित पदों के प्रकृति प्रत्ययों को जोड़कर अथवा अलग करके उचित उत्तर विकल्पों में से चुनकर लिखिए।) (केवल चार प्रश्न)
(i) विद्वांसः एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
(क) चक्षुस् + मतुप्
(ख) चक्षुष् + मतुप्
(ग) चक्षुः + मतुप्
(घ) चक्षुः + तमप्
उत्तर :
(ख) चक्षुष् + मतुप्
(ii) विचित्रा दैवगतिः।
(क) विचित्र + टाप्
(ख) विचित्र + ङीप्
(ग) विचित्र + त्व
(घ) विचित्र + तत्
उत्तर :
(क) विचित्र + टाप्
(iii) जम्बुक:- स्वामिन् ! यत्रास्ते सा धूर्ता तत्र गम्यताम्।
(क) धूर्त + तल्
(ख) धूर्त + टाप्
(ग) धूर्त + त्व
(घ) धूर्त + क्त्वा
उत्तर :
(ख) धूर्त + टाप्
(iv) तस्य भार्या बुद्धि + मतुप् पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
(क) बुद्धिमान्
(ख) बुद्धिमती
(ग) बुद्धिमत्
(घ) बुद्धिमन्त:
उत्तर :
(ख) बुद्धिमती
(v) सर्वेषामेव मत्कृते महत् + त्व विद्यते।
(क) महत्ता
(ख) महत्वम्
(ग) महत्त्वम्
(घ) महानता
उत्तर :
(ग) महत्व्वम्
8. वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत । (केवल प्रश्नत्रयम्) (1 × 3 = 3 अङ्काः)
(दिए गए पदों में वाच्य परिवर्तन करके उचित पद में रिक्त स्थानों की पूर्ति करके निम्नलिखित संवाद को पुन: लिखिए।) (केवल तीन प्रश्न)
(i) सुरेश:- मालती । किम् अतिथयः भोजन ……….|
(क) करोति
(ख) कुर्वन्ति
(ग) कुरुतः
(घ) कुरुथः
उत्तर:
(ख) कुर्वन्ति
(ii) मालती:-आम् भ्रातः। अतिथिभिः भोजनं …….. (कृ।)
(क) क्रियन्ते
(ख) क्रियसे
(ग) क्रियवाः
(घ) क्रियते
उत्तर:
(घ) क्रियते
(iii) सुरेश:- मालती । किं जनकः अपि तत्र ……..।
(क) उपविशन्ति
(ख) उपविश्वस्य
(ग) उपविशति
(घ) उपविश्येते
उत्तर:
(ग) उपविशति
(iv) मालती-भ्रातः। ……… जनक तत्र उपविश्यते ।
(क) जनकम्
(ख) जनकेन्
(ग) जनकेन्
(घ) जनक:
उत्तर:
(ख) जनकेन
9. अधोलिखित-दिनचर्यायां रिक्तस्थानानि संस्कृतकालबोधकशब्दैः पूरयत । (केवलं प्रश्न चतुष्टयम्) (1 × 4 = 4)
(i) माता प्रातः ______________ (07.30) उत्तिष्ठामि ।
उत्तरः
सार्धसप्तवादने
(ii) प्रातः उत्थाय _____________ (08.00) योगाभ्यासं करोति।
उत्तरः
अष्टवादने
(iii) सा _____________ (08.45) स्नानं करोति।
उत्तरः
पादोन नववादने
(iv) सा ___________________ (10.15) अल्पहारं करोति।
उत्तरः
सपाददशवादने
(v) तदन्तरं सा गृहकार्याणिसमाप्य ____________________ (12.15) भोजनं पचति।
उत्तरः
सपादद्वादशवादने
10. मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत। (केवलं प्रश्नत्रयम् ) (1 × 3 = 3 अङ्काः)
(मञ्जूषा में दिए गए उचित अव्यय पदों से वाक्यों में रिक्त स्थानों की पूर्ति कीजिए।) (केवल तीन प्रश्न)
[मञ्जूषा – सहसा, कदा, उच्चैः, शनैः, इतस्ततः।
(i) त्वं …….. भोजनं खादसि ।
उत्तर:
शनैः
(ii) ज्वालामाकुलाः अश्वाः प्राणत्राणाय ……….. अधावन्।
उत्तर:
इतस्ततः
(iii) सा ………. गीतं गायति ।
उत्तर:
उच्चैः
(iv) त्वं विद्यालयात् ……… आगच्छसि ?
उत्तर:
कदा
11. अधोलिखितवाक्येणु रेखाह्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत-(केवलं प्रश्नत्रयम) 1 × 3 = 3
(निम्नलिखित वाक्यों में रेखांकित अशुद्ध पद के लिए उचित पद चुनकर वाक्यों को पुनः लिखिए।) (केवल तोन प्रश्न)
(i) भवान् फलं खाद।
(क) खादसि
(ख) खादन्तु
(ग) खादतु
(घ) खाद्यताम्
उत्तर :
(ग) खादतु
(ii) वृक्षाणि हरिताः सन्ति।
(क) वृक्षान्
(ख) वृक्षा:
(ग) वृक्षौ
(घ) वृक्षः
उत्तर :
(ख) वृक्षा:
(iii) स: ग्रामं गच्छन्ति।
(क) गच्छसि
(ख) गच्छत:
(ग) गच्छति
(घ) गच्छ
उत्तर :
(ग) गच्छति
(iv) आनन्द: ह्यः न आगमिष्यति।
(क) आगच्छत्
(ख) आगच्छति
(ग) आगच्छन्
(घ) अगच्छत्
उत्तर :
(क) आगच्छत्
खण्ड: – घ
(पठितावबोधनम्)
12.अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- (5)
(वनस्य दृश्यम् समीपे एवैका नदी अपि वहति ।) एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति। करुद्धः सिंहः तं परह्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः। तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति एवमेव वानराः वारं वारं सिंहं तुदन्ति । क्र द्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्चितं कलरवं कूर्वन्ति।
प्रश्नाः
(अ) एकपदेन उत्तरत-(केवलं प्रर्नद्रयम्) (½ × 2 = 1)
(क) एकः सिंहः केन विश्राम्यते ?
उत्तरः
सुखेन
(ख) कः कूर्दित्वा वृक्षमारूढः ?
उत्तरः
वानरः
(ग) के कलरवं कुर्वन्ति?
उत्तरः
पक्षिणः
(आ) पूर्णवाक्येन उत्तरत– (केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) वानराः सिंहः कथम् तुदन्ति ?
उत्तरः
एकः वानरः सिंहस्य पुच्छं धुनोति, अपरः वानरः तस्य कर्णमाकृष्य वृक्षोपरि आरोहति एवमेव वानराः सिंहं वारं वारं तुदन्ति ।
(ख) सिंहस्य पुच्छं कः धुनोति?
उत्तरः
सिंहस्य पुच्छं वानरः धुनोति।
(ग) क्रुद्धः सिंहः कं प्रहर्तुमिच्छति
उत्तरः
कद्ध सिंहः वानरं प्रर्तुमिच्छति।
(इ) निर्देशानुसारं उत्तरत / भाषिक कार्यम्-(केवलं प्रश्नद्वयम्) (1 × 2 = 2)
(क) “करुद्धः सिंहः इतस्ततः धावति” अत्र कः अव्यय पदं प्रयुक्तः ?
उत्तरः
इतस्ततः
(ख) ‘ धु गृहीत्वा आन्दोलयति’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
उत्तरः
धुनोति
(ग) ‘ वनस्य दृश्यं समीपे एवैका नदी अपि वहति ‘ इति वाक्ये किं क्रियापदं प्रयुक्तम् ?
उत्तरः
वहति
13. अधोलिखित पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत- 5
(निम्नलिखित पद्यांश को पढ़कर दिये गये प्रश्नों के उत्तर संस्कृत में लिखिए।)
दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
शुचि पर्यावरणम्॥
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोषयत् तनुः पेषयद् भ्रमति सदा वक्रम्॥
दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्।
शुचि पर्यावरणम्॥
(अ) एकपदेन उत्तरत-(केवलं प्रश्नद्वयम्) 1 / 2 × 2 = 1
(एक शब्द में उत्तर लिखिए।) केवल दो प्रश्न-
(i) अत्र किं दुर्वहं जातम् ?
उत्तर :
जीवितम्
(ii) कदा महानगरे कालायसचक्रं चलति?
उत्तर :
अनिशम्
(iii) पर्यावरणं कीदृशं भवितव्यम् ?
उत्तर :
शुचि
(आ) पूर्णवाक्येन उत्तरत-(केवलं प्रश्नद्वयम) 1 × 2 = 2
(पूर्ण वाक्य के उत्तर लिखिए।) केवल दो प्रश्न-
(i) कालायसचक्र किं कुर्वत् वक्रं भ्रमति?
उत्तर :
कालायसचक्रम् अनिशं चलद् वक्रं भ्रमति।
(ii) कै: जनग्रसनं न स्यात् ?
उत्तर :
दुर्दान्तैः दशनैः जनग्रसनं न स्यात्।
(iii) का अस्मांक शरणम् अस्ति?
उत्तर :
प्रकृतिः एव अस्माकं शरणम् अस्ति।
(इ) निर्देशानुसारम् उत्तरत। (केवलं प्रश्न द्वयम्) 1 × 2 = 2
(निर्देश के अनुसार उत्तर लिखिए)-(केवल दो प्रश्न)
(i) कविः कुत्र सज्चरणं कर्तुम् इच्छति ? इत्यत्र किं क्रियापद प्रयुक्तम् ?
उत्तर :
इच्छति
(ii) ‘महानगरम्’ इत्यत्र किं विशेष्यपदम् अस्ति?
उत्तर :
नगरम्
(iii) ‘अशुचि:’ इत्यस्य किं विलोमपदं प्रयुक्तम्।
उत्तर :
शुचि:
14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत । (5 अङ्काः)
(निम्नलिखित नाट्यांश को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में दीजिए)
व्याघ्रचित्रकौ:- अरे किं वनराजपदाय सुपात्रं चीयते ? एतदर्थं तु आवामेव योग्यौ। यस्य कस्यापि चयनं कुर्वन्तु सर्वसम्मत्या।
सिंहः- तूष्णीं भव भोः। युवामपिात्सदृशौ भक्षकौ न तु रक्षकौ । एते वन्यजीवाः भक्षकं रक्षकपदयोग्यं न मन्यन्ते अतएव विचारविमर्श: प्रचलति ।
बकः सर्वथा सम्यगुक्तम् सिंमहोदयेन । वस्तुतः एवं सिंहेन बहुकालपर्यन्तं शासनं कृतम् परमधुना तु कोऽपि पक्षी एव राजेति निश्चेतव्यम् अत्र तु संशीतिलेशस्यापि अवकाशः एव नास्ति ।
सर्वे पक्षिणः- (उच्चैः ) आम् आम् – कश्चित् खगः एव वनराजः भविष्यति इति ।
I. एकपदेन उत्तरत। (केवलं प्रश्नद्वयम् ) (1/2 × 2 = 1अङ्कः)
(एक शब्द में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) विवादं शृणुतः कौ आगत: ?
उत्तर:
व्याघ्रचित्रकौ
(ii) ‘तूष्णीं भव’ इति कः कथयति ?
उत्तर:
सिंह:
(iii) कोऽपि पक्षी एव राजेति इति क कथयति ?
उत्तर:
बक:
II. पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(पूर्णवाक्य में उत्तर दीजिए।) (केवल दो प्रश्न)
(i) केन बहुकालपर्यन्तं शासनं कृतम् ?
उत्तर:
सिंहेन बहुकालपर्यन्तं शासनं कृतम्।
(ii) केन सर्वथा सम्यगुक्तम् ?
उत्तर:
सिंह महोदयेन सर्वथा सम्यगुक्तम्।
(iii) कोऽपि वनराजः भविष्यति ?
उत्तर:
कश्चित् खगः एव वनराजः भविष्यति।
III. निर्देशानुसारम् उत्तरत। (केवलं प्रश्नद्वयम् ) (1 × 2 = 2 अङ्काः)
(निर्देशानुसार उत्तर दीजिए।) (केवल दो प्रश्न )
(i) “एतदर्थं तु आवमेव योग्यौ” इत्यस्मिन् वाक्ये ‘आवा’ इति सर्वनाम् पदं काभ्याम् प्रयुक्तम् ?
उत्तर:
व्याघ्रचित्रकाभ्याम्
(ii) ‘कश्चित् खगः एवं वनराजः भविष्यति’ अत्र क्रियापदं किम् ?
उत्तर:
भाविष्यति
(iii) रक्षकौ इति पदस्य विलोम पदं पद्यांश किं प्रयुक्तम् ?
उत्तर:
भक्षकौ
15. रेखाह्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत-(केवलं प्रशनचतुष्टयम्) (1 × 4 = 4)
(i) अयोग्यः पुरुषः नास्ति।
उत्तरः
कौदृशः पुरुषः नास्ति?
(ii) मयूरस्य नृत्यं प्रकृतेः आराधना।
उत्तरः
मयूरस्य नृत्यं कस्याः आराधना ?
(iii) चौरस्य पादध्वनिना अतिथिः प्रनुधः।
उत्तरः
कस्य पादध्वनिना अतिधिः प्रबुधः ?
(iv) पिता पुत्राय बाल्ये विद्याधनम् यच्छति ।
उत्तरः
पिता पुत्राय कदा विद्याधनम् यच्छति ?
(v) धेनूनाम् माता सुरभिः आसीत्।
उत्तरः
कासाम् माता सुरभिः आसीत्?
16. मंञ्जूषातः समुचितपदानि चित्वा अधोलिखित श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत । (1 × 4 = 4 अङ्काः)
(मञ्जूषा से उचित पदों को चुनकर निम्नलिखित श्लोकों के अन्वय को पूरा करके पुन: लिखिए |)
क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय ।
यथास्थितः काष्ठगतो हि वहिनः,
स एव वह्निर्दहते शरीरम् ।
अन्वयः क्रोधः हि (i) ……………..देहविनाशाय/देहस्थित: (ii) ……… शत्रुः (अस्ति) यथा (iii) ………. स्थितः हि वह्निः (भवति) स: वह्निः काष्ठम् एव दहते तथा (iv) ……… शरीरम् दहते ।
[मञ्जूषा प्रथमः क्रोधः, नराणां, काष्ठगतः।
उत्तर:
(i) नराणां
(ii) प्रथमः
(iii) काष्ठगतः
(iv) क्रोध:
अथवा
अधोलिखित श्लोकस्य भावार्थम् मञ्जूषायाः उचितपदैः पूरयत । (1 × 4 = 4 अङ्काः)
(निम्नलिखित श्लोक का भावार्थ मञ्जूषा के उचित शब्दों से पूरा कीजिए)
आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः ।
तस्माद् रक्षेत् सदाचारं प्राणेश्योऽपि विशेषतः ।।
भावार्थ: विदूषां (i) ……… इति तद् (ii) ……… प्रथमो धर्मः (iii) ………. प्राणेभ्योऽपि (iv) ……… ‘तस्माद् सदाचारं
[मञ्जूषा आचार, वचः, विशेषतः रक्षेत् ।
उत्तर:
(i) वचः
(ii) आचारः
(iii) विशेषत:
(iv) रक्षेत्
17. अधोलिखित-कथांशं समुचित-क्रमेण लिखत- 1 / 2 × 8 = 4
(निम्नलिखित वाक्यांश को समुचित क्रम से लिखिए।)
(i) एकः कृषकः आसीत्।
(ii) पुत्रस्य दैन्यावस्थां दृष्ट्वा सुरभिः दु:खिता अभवत्।
(iii) सुरभे: इमाम् अवस्थां दृष्ट्वा सुराधिपः ताम् अपृच्छत्-‘अयि शुभे! किमेवं रोदिषि’ इति।
(iv) कृषक: तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत।
(v) तस्य समीपे द्वौ बलीवर्दौ आस्ताम्।
(vi) क्रुद्ध: कृषक: तमुत्थापयितुं बहुवारं यत्नमकरोत्।
(vii) सः वृषभः हलम् ऊद्वा गन्तुम् अशक्त: क्षेत्रे पपात।
(viii) तयोः बलीवर्दयोः एक: शरीरेण दुर्बलः आसीत्।
उत्तर :
(i) एकः कृषकः आसीत्।
(v) तस्य समीपे द्वै बलीवदौं आस्ताम्।
(viii) तयोः बलीवर्दयो: एक: शरीरेण दुर्बलः आसीत्।
(iv) कृषक: तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत।
(vii) स: वृषभः हलम् ऊद्वा गन्तुम् अशक्तः क्षेत्रे पपात।
(vi) क्रुद्ध: कृषक: तमुत्थापयितुं बहुवारं यल्नकरोत्।
(ii) पुत्रस्य दैन्यावस्थां दृष्ट्वा सुरभि: दु:खिता अभवत्।
(iii) सुरभे: इमाम् अवस्थां दृष्ट्वा सुराधिप: ताम् अपृच्छत्- ‘अयि शुभे! किमेवं रोदिषि’ इति।
18. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थ चित्वा लिखत। (केवलं प्रश्नत्रयम्) (1 × 3 = 3)
(i) तस्य भार्या बुद्धिमती पितुरगहं प्रति चलिता।
(क) पत्नी
(ख) भगिनी
(ग) भ्राता
(घ) भारः
उत्तरः
क) पलनी
(ii) मा ब्रूहि दीनं वचः।
(क) बाला
(ख) बालः
(ग) वद
(घ) वाहकः
उत्तरः
(ग) वद
(iii) एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि ।
(क) धमनम्
(ख) मर्गे
(ग) धनम्
(घ) धारा
उत्तरः
(ख) मर्गे
(iv) शतशकटीयानं धूमं मुञ्चति ।
(क) धावति
(ख) पिबति
(ग) चलति
(घ) त्यजति
उत्तरः
(घ) त्यजति