• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer

CBSE Tuts

CBSE Maths notes, CBSE physics notes, CBSE chemistry notes

  • NCERT Solutions
    • NCERT Solutions for Class 12 English Flamingo and Vistas
    • NCERT Solutions for Class 11 English
    • NCERT Solutions for Class 11 Hindi
    • NCERT Solutions for Class 12 Hindi
    • NCERT Books Free Download
  • TS Grewal
    • TS Grewal Class 12 Accountancy Solutions
    • TS Grewal Class 11 Accountancy Solutions
  • CBSE Sample Papers
  • NCERT Exemplar Problems
  • English Grammar
    • Wordfeud Cheat
  • MCQ Questions

CBSE Sample Papers for Class 10 Sanskrit Paper 1

CBSE Sample Papers for Class 10 Sanskrit Paper 1 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 1.

CBSE Sample Papers for Class 10 Sanskrit Paper 1

Board CBSE
Class X
Subject Sanskrit
Sample Paper Set Paper 1
Category CBSE Sample Papers

Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 1 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.

समय: होरात्रयम्
पूर्णाङ्काः 80

निदेशाः

  1. प्रश्नपत्रं चत्वारः खण्डाः सन्ति
    • खण्ड: (क) अपठित-अवबोधनम्    10 अङ्कः
    • खण्ड: (ख) रचनात्मकं-कार्यम्        15 अङ्काः
    • खण्ड: (ग) अनुप्रयुक्तव्याकरणम्    25 अङ्काः
    • खण्डः (घ) पठित-अवबोधनम्        30 अङ्काः
  2. सर्वे प्रश्नाः अनिवार्याः।
  3. प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
  4. प्रश्नसंख्या अवश्यमेव लेखनीया।
  5. उत्तराणि संस्कृतेनैव लेखनीयानि।

खण्डः ‘क’-अपठित-अवबोधनम्

प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत – (10)
अकबरचक्रवर्तिनः आस्थाने टोडरमल्लः, बीरबलः, तानसेनः इति आदयः विद्वांसः आसन्। तानसेनः अद्वितीयः गायकः। कदाचित् अकबरस्य पत्नी महाराज्ञी तानसेनम् उक्तवती-” भवान् आगामि दीपावली रात्रौ दीपकरागगानेन राजभवने दीपान् ज्वालयतु” इति । परन्तु तानसेनः एतत् विनयेन निराकृतवान्। यतः सः जानाति स्म यत् दीपकरागालपनेन स्वशरीरं नितराम् उष्णं भवति, तेन कदाचित् मरणमपि सम्भाव्यते इति। एतत् ज्ञात्वा महाराज्ञी अपि पुनः अनुरोधं न कृतवती।

अथ कदाचित् मथुरायां निवसतः तानसेनस्य गुरोः हरिदासवर्यस्य मरणम् अभवत् । तानसेनः झटिति मथुरां गतवान् । तत्र गुरोः वासस्थलं गत्वा दीपकरागालापनेन तस्य चितां ज्चालितवान्। अकबर-चक्रवर्ती अपि सपत्नीकः तत्र गत्वा अन्त्यक्रियासु भागे गृहीतवान् । ततः सर्वे आग्रानगरं प्रत्यागताः । एकस्मिन् दिने सभायां महाराज्ञी तानसेनं पृष्टवती – किं भो तानसेन ! गुरोः चितायाम् अग्ने: प्रज्वालिते सति भवतः शरीरम् उष्णं न अभवत् ? भवान् अद्यापि स्वस्थः अस्ति । इदं श्रुत्वा विहस्य च सः प्रत्यवदत् – तत्र तु गुरोः निमित्तं गानं कृतवान् परन्तु अत्र तु भवत्याः प्रसन्नार्थं गास्यामि। तेन तु हानिः अपि सम्भाव्यते । तत्पश्चात् सा कदापि न प्रार्थितवती।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) तानसेनः कीदृशः गायकः?
(ii) तानसेनः कस्य निमित्तं गानं कृतवान् ?

(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
(i) महाराज्ञी तानसेनं किम् उक्तवती ?
(ii) गुरोः वासस्थलं गत्वा तानसेनः किम् कृतवान् ?

(III) निर्देशानुसारं उत्तरत – (1/2 × 4 = 2)
(i) ‘उष्णं’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(ii) ‘भवतः’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(iii) ‘ज्वालयतु’ इति क्रियापदस्य कर्तृपदं किम् ?
(iv) ‘अनलस्य’ इति पदस्य कः पर्यायः गद्यांशे प्रयुक्तम् ?

(IV) अस्य गद्यांशस्य उचितं शीर्षकं दीयताम्।

खण्डः ‘ख’- रचनात्मकं कार्यम्

प्रश्न 2:
तव मित्रम् तव जन्मदिवसे आगन्तुम् असमर्थः अभवत्। अतः मित्राय जन्मदिवसविषयकं लिखितम् इदं पत्रम् मञ्जूषायां दत्तैः पदैः पूरयित्वा उत्तरपुस्तिकायाम् लिखत – (5)

20 वसन्तविहारः
नव दिल्लीत:
तिथि: …………….

………..(1) सञ्जीव!
सस्नेहं ………………..(२)
यद्यपि वार्षिकपरीक्षायां व्यस्ततया ……… (3) मम जन्मदिवसोत्सवस्य आनन्दः न लब्धः, तथापि आशासे यत् तस्य वर्णनं ……….. (4) अपि भवान् किमपि आनन्दम् अवश्यमेव लप्स्यते। केककृन्तनस्य आधुनिकरीतिं विहाय यज्ञहोमादिकस्य ……………(5) अवलम्ब्य अयमुत्सवः मानितः। पुरोहितमहोदयेन ………… (6) ममोपरि सर्वेषाम् आगन्तुकानां पक्षतः शुभकामना दत्ता। …………..(7) दृष्ट्वा सर्वे आनन्दम् अभवन्। विस्तरेण तु ……….(8) मिलित्वा बोधयिष्यामि इति ………………(9)।

…………………..(10) मित्रम
राजीवः।

मञ्जूषा- परस्परं, पठित्वा, प्रिय, भवता, भवतः, आशीर्वचसा, अलम्, नमस्कारः, भारतीयसरणिम्, एकलाभिनयम्

प्रश्न 3:
चित्रम् आधृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया च संस्कृते पञ्चवाक्यानि लिखत- (2 × 5 = 10)
CBSE Sample Papers for Class 10 Sanskrit Paper 11 Q.3
मञ्जूषा
उष्ट्राः, रज्जुम्, जनाः, मरुस्थलस्य, पर्वताः, वृक्षविहीनाः, नयन्ति, जीवनम्, जनजाति, सिकताः।
अथवा
‘मातुः महिमा’ इति विषयमधिकृत्य संस्कृते पञ्चवाक्यानि लिखत।
मञ्जूषा- सर्वोपरि, सन्ततिपालने, मातुरधिकं, सुखं, भोजनम्, निद्राम्, संसारे, पूजनीया, त्यजति, वर्तते।

खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्

प्रश्न 4:
अधोलिखितेषु वाक्येषु स्थूलपदेषु सन्धिच्छेदम् अथवा सन्धिं कृत्वा लिखत – (4)
(i) कृपणः धनं सम् + चयति।
(ii) बलाकैका विष्टाम् अकरोत्।
(iii) तत् + श्रुत्वा सः चकितः अभवत्।
(iv) अहं भवने चक्षुर्द्वयमेव प्रयच्छामि।

प्रश्न 5:
अधोलिखितप्रश्नोत्तरवाक्येषु स्थूलपदेषु समासं अथवा विग्रहं कृत्वा लिखत – (4)

  1. प्रश्नः  – किं त्यक्तव्यम् ?                      उत्तरम् – अकार्यम्।
  2. प्रश्नः  – कीदृशः बालः कम्पति ?           उत्तरम् – सिंहभीतः
  3. प्रश्नः – एषः कस्य देवालयः ?              उत्तरम् – पीतानि अम्बराणि यस्य सः।
  4. प्रश्नः – वृक्षे किम् सन्ति ?                    उत्तरम् – पक्वाम्राणि।

प्रश्न 6:
अधोलिखितेषु वाक्येषु स्थूलपदानां “प्रकृतिः प्रत्ययः” च पृथक् पृथक् कृत्वा अथवा संयोज्य पुनः लिख्यताम् – (4)

  1. मेघं दृष्ट्वा (मयूरी) नृत्यति।
  2. (गर्जन्तः ) मेघाः न वर्षन्ते।
  3. दीनेषु न (हस् + तव्यत्)।
  4. (स्वतन्त्रता) नरस्य जन्मसिद्धः अधिकारः।

प्रश्न 7:
(अ) मञ्जूषायाम् दत्तैः अव्ययपदैः अधोलिखितम् अनुच्छेदं पूरयित्वा पुनः लिखत – (2)

नूनम् , बहिः, अपि, एव

यस्य हस्ते पुष्पाणि सन्ति (i) ……………. सः मालाकार (ii) …………। उपवनात् (iii) ………. देवालयः (iv) ………….. अस्ति।

(ब) उचितेन अव्ययपदेन रिक्तस्थानानि पूरयत – (2)
(i) ………….. कमलानि सन्ति तत्र भ्रमराः।
(ii) यथा भोजनं …………………. शरीरम्।
(iii) …………… अहं दूरदर्शनं पश्यामि तावत् त्वम् पठ।
(iv) यदि परिश्रमं करोषि …………. सफलः भविष्यसि।

प्रश्न 8:
अधः मञ्जूषायाः उचितक्रियापदानि विचित्य रिक्तस्थानानि पूरयित्वा पुनः लिखत – (3)
क्षाल्यन्ते, पीयते, पठ्यते, खाद्यते, स्मर्यते

  1. रमया मलिनवस्त्राणि ……………..।
  2. तया प्रातः दुग्धं ……………..।
  3. तया नित्यं समये ……………।

प्रश्न 9:
घटिकां दृष्ट्वा लिखत यत् रमा कदा किम् करोति ? (4)

  1. सा (9.00) ……………… विद्यालयं गच्छति।
  2. सा विद्यालयात् आगत्य (2.15) ……………. विश्रामं करोति।

प्रश्न 10:
अशुद्धिशोधनम् –
एतत् जन्तुशाला। अत्र वयम् विविधा पशून् अपश्याम। सिंहगर्जनं श्रुत्वा बालाः भयभीताः भवति।
प्रायः जनाः परिवारस्य सह अत्र आगच्छन्ति।

खण्डः ‘घ’-पठित-अवबोधनम्

प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा एतदाधारितानाम् प्रश्नानाम् उत्तराणि लिखत – (6)
अत्र अनेके प्रमुखोत्सवाः ‘वाचो’ जनजातीनां प्रमुखं पर्व ‘ओरिया’ इति अस्ति। एतत् तु फरवरी इति मासे मान्यते। अस्मिन् अवसरे कृषिभूमिपूजनं सेतुनिर्माणं च सामाजिक कार्यं क्रियते। ‘मोपीन’ इत्यापि कृषिपर्व अस्ति। देवानामपि देवः मोपीन इति कथ्यते। ‘होली’ सदृशमेव पर्व इदम्। जनाः परस्परं मुखे कपाले च शालिचूर्ण लिम्पन्ति। इदम् अप्रैल इति मासे मान्यते।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) ‘वाङ्चो’ जनजातीनां प्रमुख पर्व किम् अस्ति ?
(ii) किम् कृषिपर्व अपि अस्ति?

(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
‘होली’ सदृशम् ‘मोपीन’ इति पर्वणि जनाः किम् कुर्वन्ति ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘उत्सवः’ इति शब्दस्य कः पर्यायवाची शब्दः अत्र प्रयुक्तः?
(क) पृष्टम्
(ख) पर्व
(ग) समं

(ii) ‘इदम्’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) ओरिया
(ख) मोपीन
(ग) शालिचूर्णम्

(iii) ‘लिम्पन्ति’ क्रियायाः कर्तृपदं किम् ?
(क) शालिचूर्णं
(ख) परस्परं
(ग) जनाः

(iv) प्रमुख पर्व’ अत्र ‘प्रमुखं’ इति पदस्य विशेष्यपदं किम् ?
(क) लोसर
(ख) पर्व
(ग) इति

(आ) अधोलिखितं संवादं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
श्रीकृष्णः – वत्स! न जानाति भवान् द्रौणैः चपलां प्रकृतिम्। पितुः द्रोणात् प्राप्तं ब्रह्मशिरो नाम अस्त्रं विद्यते तस्य पावें। यदि तत् प्रयुज्यते, सर्वा पृथ्वी दग्धा स्यात्।
युधिष्ठिरः – अप्येवम् ! आचार्येण कीदृशः अनर्थः कृतः। किम् चपलबालकेभ्यः एतादृश-भीषणानाम् अस्त्राणाम् प्रदानम् उचितम् ?
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) श्रीकृष्ण कस्मै ‘वत्स’ कथयति ?
(ii) कीदृशानां अस्त्रानाम् प्रदानं न उचितम् ?

(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
अश्वत्थामायाः पार्वे किम् विद्यते ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘स्यात्’ इति क्रियापदस्य कर्तृपदं किम्?
(ii) ‘तत्’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(iii) ‘प्रकृतिं’ इति पदस्य किम् विशेषणपदं प्रयुक्तम् ?
(iv) ‘समीपे’ अस्य कः पर्यायः अत्र प्रयुक्तः ?

(इ) अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत् – (6)
न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया।
प्रहलादयति च पुरुषं, यथा मधुरभाषिणी वाणी।।
(I) एकपदेन उत्तरत – (1 × 1 = 2)
1. कीदृशी वाणी पुरुषं प्रसन्नं करोति ?
2. कस्य रसः पुरुषं न प्रह्लादयति ?

(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
यथा मधुरभाषिणी वाणी पुरुषं प्रहलादयति तथा किं किं न प्रहलादयति ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4= 2)
(i) ‘प्रहलादयति’ क्रियायाः कर्तृपदं किम् ? (क) पुरुष
(ख) वाणी
(ग) मधुरभाषिणी वाणी

(ii)’ यथा’ अव्ययस्य विपरीतपदं किम् ?
(क) छाया
(ख) तथा
(ग) वाणी

(iii) ‘जलम्’ पदस्य पर्यायपदम् अत्र किम् ?
(क) चन्दनम्
(ख) सलिलम्
(ग) शीतलम्

(iv) ‘छाया’ पदस्य विशेषणम् किम् ?
(क) शीतला
(ख) शीतलम्
(ग) वाणी

प्रश्न 12:
अधोलिखित श्लोकयोः अन्वयं उचितपदक्रमेण सम्पूरयत – (1/2 × 8 = 4)
(अ) अथ केन प्रयुक्तोऽयं पापं चरति पुरुषः।
अनिच्छन्नपि वाष्र्णेय बलादिव नियोजितः॥
अन्वयः- (i) ………………! अथ अयं पुरुषः (ii) ……………. अपि बलादिव (iii) ………… केन (iv) ……… पापं चरति।

(ब) यत्प्रोक्तं येन केनापि तस्य तत्वार्थनिर्णयः।
कर्तुं शक्यो भवेद्येन स विवेक इतीरितः॥
अन्वयः- येन केन अपि (i) ………….. तस्य तत्वार्थनिर्णयः येन कर्तुम् (ii) ……….. भवेत् सः (iii) ………… इति (iv) ………….
मजूषा- अनिच्छन्, यत्प्रोक्तम्, विवेकः, प्रयुक्तः, वार्ष्णेय, शक्यः, नियोजितः, इरितः।

प्रश्न 13:
अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत – (4)

  1. राजपुत्राः प्रासादे वानरैः सह क्रीडन्ति स्म।
  2. प्रच्छन्नभाग्यस्य गृहम् आभया भासमानम् अभवत्।
  3. राजा पुत्रवत् प्रजाः पालयति स्म।
  4. कामस्य नाशाय इन्द्रियाणि वशे करणीयानि।

प्रश्न 14:
अधोलिखितासु पंक्तिषु स्थूलाक्षरपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थम् चित्वा उत्तरपुस्तिकायाम् लिखत – (4)
I. भुङ्क्तेऽपक्वं विमूढधीः।
(i) सुधीः
(ii) निधिः
(iii) मन्दधी:

II. सम्प्रति आश्वस्तः अस्मि।
(i) समस्तम्
(ii) अधुना
(iii) संकलम्

III. निधानतां याति हि दीयमानम्।
(i) निर्धनताम्
(ii) सम्पन्नताम्
(iii) निष्पन्नताम्

IV. नृपस्य पुत्राः मर्कटैः सह क्रीडन्ति स्म।
(i) मुक्ताभिः
(ii) वानरैः
(iii) मेषैः

उत्तराणि
खण्डः ‘क’-अपठित-अवबोधनम्

उत्तर 1:
I. (i) अद्वितीयः
(ii) गुरोः

II. (i) महाराज्ञी तानसेनं उक्तवती-” भवान् आगामि दीपावली-रात्रौ दीपकरागगानेन राजभवने दीपान् ज्वालयतु” इति।
(ii) गुरोः वासस्थलं गत्वा तानसेनः दीपकरागालापनेन तस्य चिताम् ज्वालितवान्।

III. (i) शरीरम्
(ii) तानसेनाय
(iii) भवान्
(iv) अग्नेः

IV. अद्वितीयः गायकः तानसेनः; तानसेनः

खण्डः ख’- रचनात्मक कार्यम्

उत्तर 2:

  1. प्रिय
  2. नमस्कारः
  3. भवता
  4. पठित्वा
  5. भारतीयसरणिम्
  6. आशीर्वचसा
  7. एकलाभिनयम्
  8. परस्परम्
  9. अलम्
  10. भवतः

उत्तर 3:

  1. इदं मरुस्थलस्य चित्रम् अस्ति।
  2. अत्र त्रयः उष्ट्राः धावन्ति।
  3. उष्ट्रचालकाः रज्जु गृहीत्वा उष्ट्रान् नयन्ति।
  4. अत्र वृक्षविहीनाः पर्वताः सन्ति।
  5. सर्वतः सिकतायुता इयं भूमिः।
  6. अत्रत्यानां जनजातीनां जीवनं कष्टकरं भवति।

अथवा
(मातुः महिमा)

  1. अस्मिन् संसारे माता सर्वाधिका प्रिया पूज्या च भवति।
  2. सर्वे एव जनाः दुःखेषु मासरम् एव स्मरन्ति।
  3. सा स्वसन्ततिपालने अनेकानि कष्टानि सहते।
  4. सा सन्तानस्य हेतोः सर्वं सुखं भोजनं निद्रां अपि त्यजति।
  5. अतएव मातुः स्थानं सर्वोपरि वर्तते।

खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्

उत्तर 4:

  1. सञ्चयति
  2. बलाका + एका
  3. तच्छुत्वा
  4. चक्षुः + द्वयमेव

उत्तर 5:

  1. ने कार्यम्
  2. सिंहात् भीतः
  3. पीताम्बरस्य
  4. पक्वानि आम्राणि।

उत्तर 6:

  1. मयूर + डीम्।
  2. गज् + शतृ
  3. हसितव्यम्
  4. स्वतन्त्र + तल्

उत्तर 7:
(अ) (i) नूनम्
(ii) एवं
(iii) बहिः
(iv) अपि

(ब) (i) यत्र
(ii) तथा
(iii) यावत्
(iv) तर्हि

उत्तर 8:

  1. क्षाल्यन्ते
  2. पीयते
  3. पठ्यते

उत्तर 9:

  1. नववादने
  2. सपादद्विवादने

उत्तर 10:

  1. एषा
  2. विविधान्
  3. भवन्ति
  4. परिवारेण

खण्डः ‘घ’-पठित-अवबोधनम्

उत्तर 11:
(अ) I. (i) ओरिया
(ii) मोपीन

II. ‘होली’ सदृशम् ‘मोपीन’ इति पर्वणि जनाः परस्परं मुखे कपाले च शालिचूर्ण लिम्पन्ति।

III. (i) (ख) पर्व
(ii) (ख) मोपीन
(iii) (ग) जनाः
(iv) (ख) पर्व

(आ) I. (i) युधिष्ठिराय
(ii) भीषणानाम्

II. अश्वत्थामायाः पार्वे ब्रह्मशिरः नाम अस्त्रं विद्यते।

III. (i) पृथ्वी
(ii) ब्रह्मशिरसे
(iii) चपलाम्।
(iv) पार्वे

(इ) I. (i) मधुरभाषिणी
(ii) चन्दनस्य

II. न तथा शीतलसलिलं …….. मधुरभाषिणी वाणी।

III. (i) (ग) मधुरभाषिणी वाणी
(ii) (ख) तथा
(iii) (ख) सलिलम्
(iv) (क) शीतला

उत्तर 12:
(अ) (i) वाष्र्णेय
(ii) अनिच्छन्।
(iii) नियोजितः
(iv) प्रयुक्तः

(ब) (i) यत्प्रोक्तं
(ii) शक्यः
(iii) विवेकः
(iv) ईरितः

उत्तर 13:

  1. कै ??
  2. कया?
  3. का?
  4. कानि?

उत्तर 14:
I. (iii) मन्दधी:
II. (ii) अधुना
III. (ii) सम्पन्नताम्
IV. (ii) वानरैः

We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 1 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 1, drop a comment below and we will get back to you at the earliest.

Primary Sidebar

NCERT Exemplar problems With Solutions CBSE Previous Year Questions with Solutoins CBSE Sample Papers
  • The Summer Of The Beautiful White Horse Answers
  • Job Application Letter class 12 Samples
  • Science Lab Manual Class 9
  • Letter to The Editor Class 12 Samples
  • Unseen Passage For Class 6 Answers
  • NCERT Solutions for Class 12 Hindi Core
  • Invitation and Replies Class 12 Examples
  • Advertisement Writing Class 11 Examples
  • Lab Manual Class 10 Science

Recent Posts

  • Understanding Diversity Question Answer Class 6 Social Science Civics Chapter 1 NCERT Solutions
  • Our Changing Earth Question Answer Class 7 Social Science Geography Chapter 3 NCERT Solutions
  • Inside Our Earth Question Answer Class 7 Social Science Geography Chapter 2 NCERT Solutions
  • Rulers and Buildings Question Answer Class 7 Social Science History Chapter 5 NCERT Solutions
  • On Equality Question Answer Class 7 Social Science Civics Chapter 1 NCERT Solutions
  • Role of the Government in Health Question Answer Class 7 Social Science Civics Chapter 2 NCERT Solutions
  • Vital Villages, Thriving Towns Question Answer Class 6 Social Science History Chapter 9 NCERT Solutions
  • New Empires and Kingdoms Question Answer Class 6 Social Science History Chapter 11 NCERT Solutions
  • The Delhi Sultans Question Answer Class 7 Social Science History Chapter 3 NCERT Solutions
  • The Mughal Empire Question Answer Class 7 Social Science History Chapter 4 NCERT Solutions
  • India: Climate Vegetation and Wildlife Question Answer Class 6 Social Science Geography Chapter 8 NCERT Solutions
  • Traders, Kings and Pilgrims Question Answer Class 6 Social Science History Chapter 10 NCERT Solutions
  • Environment Question Answer Class 7 Social Science Geography Chapter 1 NCERT Solutions
  • Understanding Advertising Question Answer Class 7 Social Science Civics Chapter 7 NCERT Solutions
  • The Making of Regional Cultures Question Answer Class 7 Social Science History Chapter 9 NCERT Solutions

Footer

Maths NCERT Solutions

NCERT Solutions for Class 12 Maths
NCERT Solutions for Class 11 Maths
NCERT Solutions for Class 10 Maths
NCERT Solutions for Class 9 Maths
NCERT Solutions for Class 8 Maths
NCERT Solutions for Class 7 Maths
NCERT Solutions for Class 6 Maths

SCIENCE NCERT SOLUTIONS

NCERT Solutions for Class 12 Physics
NCERT Solutions for Class 12 Chemistry
NCERT Solutions for Class 11 Physics
NCERT Solutions for Class 11 Chemistry
NCERT Solutions for Class 10 Science
NCERT Solutions for Class 9 Science
NCERT Solutions for Class 7 Science
MCQ Questions NCERT Solutions
CBSE Sample Papers
NCERT Exemplar Solutions LCM and GCF Calculator
TS Grewal Accountancy Class 12 Solutions
TS Grewal Accountancy Class 11 Solutions