• Skip to main content
  • Skip to primary sidebar
  • Skip to footer
  • NCERT Solutions
    • NCERT Solutions for Class 12 English Flamingo and Vistas
    • NCERT Solutions for Class 11 English
    • NCERT Solutions for Class 11 Hindi
    • NCERT Solutions for Class 12 Hindi
    • NCERT Books Free Download
  • TS Grewal
    • TS Grewal Class 12 Accountancy Solutions
    • TS Grewal Class 11 Accountancy Solutions
  • CBSE Sample Papers
  • NCERT Exemplar Problems
  • English Grammar
    • Wordfeud Cheat
  • MCQ Questions

CBSE Tuts

CBSE Maths notes, CBSE physics notes, CBSE chemistry notes

CBSE Sample Papers for Class 10 Sanskrit Paper 2

CBSE Sample Papers for Class 10 Sanskrit Paper 2 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 2.

CBSE Sample Papers for Class 10 Sanskrit Paper 2

Board CBSE
Class X
Subject Sanskrit
Sample Paper Set Paper 2
Category CBSE Sample Papers

Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 2 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.

समय: होरात्रयम्
पूर्णाङ्काः 80

निदेशाः

  1. प्रश्नपत्रं चत्वारः खण्डाः सन्ति
    • खण्ड: (क) अपठित-अवबोधनम्    10 अङ्कः
    • खण्ड: (ख) रचनात्मकं-कार्यम्        15 अङ्काः
    • खण्ड: (ग) अनुप्रयुक्तव्याकरणम्    25 अङ्काः
    • खण्डः (घ) पठित-अवबोधनम्        30 अङ्काः
  2. सर्वे प्रश्नाः अनिवार्याः।
  3. प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
  4. प्रश्नसंख्या अवश्यमेव लेखनीया।
  5. उत्तराणि संस्कृतेनैव लेखनीयानि।

खण्डः ‘क’-अपठित-अवबोधनम्

प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत – (10)
एकदा एकः साधुः क्वचिद् गच्छति स्म। मार्गे सः पश्यति यत् कश्चित् युवक: हस्तेन तुम्बरं वादयन् अश्लीलगीतानि गायन् आस्ते। साधुः तत्समीपं गत्वा तिष्ठति उच्चैः आक्रोशितुं च आरभते – “प्रभुवर, त्वं सर्वमहान्। त्वमेव सर्वेषां रक्षकः। त्वां विना अस्य संसारस्य एकं पर्णमपि चलितुं न शक्नोति।” साधुम् आक्रोशन्तं दृष्ट्वा सोऽतीव कुपितः चीत्कृत्य अवदत् – ‘तूष्णीं भव। किं प्रजल्पसि?’ “हे प्रभो, बुद्धिहीनाय बुद्धिं देहि।” साधोः इदं वचनं श्रुत्वा युवकः अत्यन्तं क्रुद्धः सन् तम् तुम्बरेण सबलं शिरसि अताडयत्। तुम्बरं खण्डशः अभवत्। साधोः मस्तकाद् रक्तधारा अस्रवत्, परं स शब्दं न उच्चरन् अग्रे प्रस्थितः। स्वकुटीम् आगत्य स सर्वमपि वृत्तं शिष्याय निवेद्य अवदत् – “त्वं तं युवकं उपगत्य तस्मै तुम्बरस्य मूल्यं मिष्ठान्नपूर्णा स्थालीं च प्रयच्छ।’

शिष्यः सर्वं गृहीत्वा तत्र गत्वा तम् अवदत् – ”इमानि व्याणि साधुना तुभ्यं प्रेषितानि ।” एतत् श्रुत्वा तत्कालं युवकस्य नेत्रे उन्मीलिते। सः धावं-धावं साधुम् उपगतः। स्वकार्याय च क्षार्थयत । साधुः तम् अत्यन्तप्रेमपूर्वकं वक्षसा आलिङ्गितवान्।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) कस्य नेत्रे उन्मीलिते ?
(ii) कस्मै बुद्धिं देहि ?

(II) पूर्णवाक्येन उत्तरत – (2 × 2=4)
(i) साधुः मार्गे किम् पश्यति ?
(ii) स्वकुटीम् आगत्य साधुः शिष्याय किम् अवदत् ?

(III) निर्देशानुसारं उत्तरत – (1/2 × 4 = 2)
(i) अस्मिन गद्यांशे ‘करेण’ इति पदस्य किम् पर्यायपदं प्रयुक्तम् ?
(क) कुपितः
(ख) हस्तेन
(ग) शिरसि
(घ) तुम्बरेण

(ii) ‘आरभते’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) युवकः
(ख) शिष्यः
(ग) साधुः
(घ) वचनम्

(iii) ‘तुभ्यम्’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) युवकाय
(ख) शिष्यायः
(ग) बुद्धिहीनाय
(घ) साधोः

(iv) अत्र ‘स्थालीम्’ इति पदस्य किम् विशेषणपदं प्रयुक्तम् ?
(क) द्रव्याणि
(ख) मिष्ठान्नपूर्णी
(ग) सबलम्
(घ) तम्

(IV) अस्य गद्यांशस्य उचितं शीर्षकम् दीयताम्। (2)

खण्डः ‘ख’- रचनात्मकं कार्यम्

प्रश्न 2:
पित्रे रक्तदानशिविरविषयकं इदं पत्रम् मञ्जूषायां दत्तैः पदैः पूरयित्वा उत्तरपुस्तिकायाम् लिखत – (5)

शास्त्रीविद्यालय: छात्रावासः
लखनऊनगरात्
तिथि: ………

पूज्य पितृमहोदय,
………..(1)।
अत्र कुशलं तत्रास्तु।
अद्याहं ………… (2) निवेदयामि यद् अस्माकं विद्यालये गते सप्ताह ………… (3) आयोजितम्। अस्माकं कक्षा-प्रमुखः अध्यापकः ………. (4) प्रमुखः आयोजकः आसीत्। सः प्रथमं स्वरक्तं ………….. (5)। तदनन्तरम्। ……… (6) पञ्च छात्राः एतस्मिन् भकार्ये अग्रेसराः अभवन। तेषाम उत्साहं ………………(7) मम मनसि अपि भावना सञ्जाता तथा च मयाऽपि स्वरक्तं प्रदत्तम्। आशासे यद् ………. (8) मम एतां भावनां ज्ञात्वा प्रसन्नो भविष्यति। अहं पूर्णतया सकुशलोऽस्मि। ……………….:(9) चिन्तया। भवतः ………………… (10) पुत्रः तुषारः।

मञ्जूषा – रक्तदानशिविरम्, दशमकक्षायाः, चरणवन्दना, भवन्तं, आज्ञाकारी, प्रायच्छत्, अलं, शिविरस्य, दृष्ट्वा, भवान्।

प्रश्न 3:
चित्रम् आधृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया च संस्कृते पञ्चवाक्यानि लिखत- (2 × 5 = 10)
CBSE Sample Papers for Class 10 Sanskrit Paper 12 Q.3
मञ्जूषा
प्रात:कालः, गगनमण्डले, सूर्यः, खगौ, छात्रः, पर्वताः, सिञ्चति, गृहम्, नमस्कुरुतः, पादपान्।
अथवा
‘सदाचारः’ इति विषयं अधिकृत्य संस्कृते पञ्चवाक्यानि लिखत।
मञ्जूषा – सदाचारी, विनम्रः, सत्कर्मसु, रुचिः, मनोविकारान्, शीलम्, सभ्यः, भूषणम्, कथ्यते, परमोधर्मः।

खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्

प्रश्न 4:
अधोलिखितेषु वाक्येषु स्थूलपदेषु सन्धिच्छेदम् अथवा सन्धिं कृत्वा लिखत – (4)

  1. द्वावेव मुनी आसने तिष्ठतः
  2. ततः + ततः किम् अभवत्।
  3. शिव सङ्कल्पम् अस्तु।
  4. अदीयमानं धनं निधनैकनिष्ठम्।

प्रश्न 5:
अधोलिखितेषु वाक्येषु स्थूलपदेषु समासं विग्रहं वा कृत्वा लिखत – (4)

  1. एतत् निर्जनम् वनम् अस्ति।
  2. अस्मिन् मुनयः समाधौ रताः।
  3. पित्रा सह सुन्दरकन्या आपणं गच्छति।
  4. बकः जले स्थितप्रज्ञः इव तिष्ठति

प्रश्न 6:
अधोलिखितेषु वाक्येषु स्थूलपदानां “प्रकृतिः प्रत्ययः” च पृथक्-पृथक् कृत्वा अथवा संयोज्य पुनः लिख्यताम् – (4)

  1. खगाः कलरवं (कुर्वन्तः) उत्पतन्ति।
  2. अस्माभिः सेवका: पोषणीयाः।
  3. अस्माभिः (समाज + ठक्) कार्यं करणीयम् ।
  4. सूर्यस्य पर्यायः (अंशु + मतुप्) अस्ति।

प्रश्न 7:
(अ) मञ्जूषायाम् दत्तैः अव्ययपदैः रिक्तस्थानानि पूरयत – (2)
पुरा, इतस्ततः, कुतः, शनैः
(i) …………….. विद्या अलसस्य।
(ii) ………. अशोक इति नाम नृपः आसीत्।
(iii) कच्छपः ………………… चलति।.
(iv) कुक्कुराः …………………… भ्रमन्ति।

(ब) उचितेन अव्ययपदेन रिक्तस्थानानि पूरयत् –
(i) …………. राजा तथा प्रजा।
(ii) यत्र वाद्ययन्त्राणि ………… संगीतकाराः।
(iii) …………… प्रातः भवति तदा तमः नश्यति।
(iv) यदि दुग्धं न पास्यसि ……….. बलवान् न भविष्यसि।

प्रश्न 8:
अधोलिखितेषु वाक्येषु वाच्यपरिवर्तनं कृत्वा पुनः लिखत – (3)

  1. पुत्रेण जनकः सेव्यते।
    पुत्रः जनकं …………..।
  2. त्वम् कवितां शृणोषि।
    ……………. कविता श्रूयते।
  3. छात्रा: प्रार्थनां कुर्वन्ति।
    …………. प्रार्थना क्रियते।

प्रश्न 9:
घटिकां दृष्ट्वा लिखत यत् त्वम् कतिवादने किम् करोषि ? (2)

  1. अहम् (1.45) …………. भोजनं करोमि।
  2. अहम् (6.15) …………. मित्रैः सह भ्रमामि।

प्रश्न 10:
अशुद्धिशोधनम् – (4)
कस्यापि स्थानस्य यात्रा ज्ञानं वर्धयन्ति । यात्रा नवीनानि अनुभवान् दर्शयति। मया कदापि पर्वतीय-यात्रा न कृतम्। ग्रीष्मावकाशे अहं अपि मित्रैः सह शिमलानगरं गमिष्यति।

खण्डः ‘घ’ – पठित-अवबोधनम्

प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा एतदाधारितानाम् प्रश्नानाम् उत्तराणि लिखत – (6)
पर्यटनाधिकारी – शोभनम् ! उचितम् उक्तम् (हिमाद्रितुङ्गशृङ्गः सुशोभिता सूर्योदयभूमिः इयम्) अतः अरुणाचलः। अस्मिन् प्रदेशे पञ्चाशदधिकाः नद्याः प्रवहन्ति। विपुला च अत्र वनसम्पदा। वनौषधीनां तु अयं स्रोतः एव। पुष्पाणां समृद्धिः सुगन्धिः च मनोहरः। मनोरमाः फलसमृद्धविटपाः। सर्वत्र हरीतिमा। शुद्धपर्यावरणेन युक्तस्य अस्य प्रदेशस्य केवलं प्रकृतिः एव न विविधा मनोहरा च प्रत्युत संस्कृतिः अपि।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) अस्मिन् प्रदेशे कति नद्यः प्रवहन्ति ?
(ii) अत्र विपुला का?

(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
अस्य प्रदेशस्य का-का विविधा मनोहरा च?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘प्रवहन्ति’ क्रियायाः कर्ता कः?
(क) पञ्चाशदधिकाः
(ख) प्रदेशे
(ग) नद्यः

(ii) ‘विविधा मनोहरा’ विशेषणपदस्य विशेष्यपदं किम् ?
(क) प्रकृतिः
(ख) प्रत्युत
(ग) केवलं

(iii) ‘न्यूना’ पदस्य विलोमपदं अत्र किम् ?
(क) हरीतिमा
(ख) मनोहरा
(ग) विपुला

(iv) ‘अयं स्रोत: एव’ अत्र ‘अयं’ सर्वनाम कस्मै प्रयुक्तम् ?
(क) स्रोताय
(ख) अरुणाचलाय
(ग) मनोहराय

(आ) अधोलिखितं नाट्याशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (6)
श्रीकृष्णः    –      आम्! मया कथितम् । नाहं त्वत्तः ब्रह्मास्त्रम् इच्छामि। यदि त्वं मम गदां, शक्तिं, धनुः चक्रं वा इच्छसि, तुभ्यं ददामि।
युधिष्ठिरः    –      ततस्ततः।
श्रीकृष्णः    –      स तु चक्रम् एव अयाचत। गृहाण चक्रम् इति उक्तः सः सव्येन पाणिना चक्रम् गृहीतवान्, किन्तु सः तत् चक्रं स्वस्थानात् संचालयितुम् अपि समर्थः न अभवत्।
युधिष्ठिरः   –       जानीमः भवतः दिव्यां शक्तिम्।

(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) त्वत्तः अहं किम् न इच्छामि ?
(ii) सः किम् संचालयितुम् समर्थः न अभवत् ?

(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
सः कथम् चक्रम् गृहीतवान् ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘भवतः’ इति सर्वनाम कस्मै प्रयुक्तः ?
(ii) ‘दिव्यां शक्तिम्’ अनयोः पदयोः किम् विशेषणपदम् ?
(iii) ‘हस्तेन’ इत्यर्थे अत्र किम् पदं प्रयुक्तम् ?
(iv) ‘अयाचत’ इति क्रियापदस्य कर्तृपदं किम् ?

(इ) अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत – (6)
वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥

(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) मन्त्री कुत्र अकातरः भवेत् ?
(ii) ‘वाचि पटुः’ इति स्थाने किं पदं प्रयुक्तम् ?

(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
कीदृशः मन्त्री परैः न परिभूयते ?

(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(ii) अत्र ‘कातरः’ इति पदस्य किम् विलोमपदं प्रयुक्तम् ?
(ii) ‘परिभूयते’ इति क्रियापदस्य कर्तृपदं अत्र किम् ?
(iv) अत्र ‘वाक्पटुः’ इति विशेषणपदस्य किं विशेष्यपदं प्रयुक्तम् ?

प्रश्न 12:
अधोलिखित श्लोकयोः अन्वयं उचितपदक्रमेण सम्पूरयत (1/2 × 8 = 4)
(अ) आयुषः क्षणमेकोऽपि, न लभ्य: स्वर्णकोटिकैः।
स चेन्निरर्थकं नीतः, कानु हानिस्ततोऽधिकाः॥
अन्वयः- आयुष: (i) ……….. अपि क्षणम् (ii) …………… न लभ्यः, स (iii) ………….. नीतः चेत् ततः अधिका (iv) …….. का नु।

(ब) तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्॥
अन्वयः- (i) ………….. तस्मात् त्वम् आदौ (ii) ……………… नियम्य (iii) …………….. (iv) ………… हि प्रजहि॥
मजूषा- भरतर्षभ, स्वर्णकोटिकैः, एकः, पाप्मानं, हानिः, ज्ञानविज्ञाननाशनम्, निरर्थकः, इन्द्रियाणि।

प्रश्न 13:
अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत – (4)

  1. अश्वाः प्राणत्राणाय इतस्ततः अधावन्।
  2. धैर्यम् आपदां तरणिः।
  3. सूर्यः अपि कालगणनायाः आधारः।
  4. अरुणाचलस्य संस्कृति अपि मनोहरा।

प्रश्न 14:
अधोलिखितासु पंक्तिषु स्थूलाक्षरपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थम् चित्वा उत्तरपुस्तिकायाम् लिखत- (4)
I. ऊह-अपोह-अर्थ विज्ञानं तत्वज्ञानं च धीगुणाः।
(i) दूरीकृत्य
(ii) विपक्षेतर्कः
(iii) तर्कः

II. मनोरमाः फलसमृद्धविटपाः।
(i) वृक्षाः।
(ii) वनानि
(iii) विहगाः।

III. अनिच्छन्नपि वाष्र्णेय! …………..।
(i) विष्णो
(ii) कृष्णं
(iii) अर्जुन

IV. मेषः वहिनना जाज्वल्यमानशरीर ………..।
(i) अनलेन
(ii) अनिलेन
(iii) अचिरेण।

उत्तराणि
खण्डः ‘क’-अपठित-अवबोधनम्

उत्तर 1:
I. (i) युवकस्य
(ii) बुद्धिहीनाय

II. (i) साधुः मार्गे पश्यति यत् कश्चित् युवकः हस्तेन तुम्बरं वादयन् अश्लीलगीतानि अगायत्।
(ii) स्वकुटीम् आगत्य साधुः शिष्यं अवदत्-त्वं तं युवकं उपगत्य तस्मै तुम्बरस्य मूल्यं मिष्ठान्नपूर्णा स्थालीं च प्रयच्छ।’

III. (i) (ख) हस्तेन
(ii) (ग) साधुः
(iii) (क) युवकाय
(iv) (ख) मिष्ठान्नपूर्णाम्

IV. क्रोधः विनाशाय; साधोः साधुत्वम्; साधोः सहिष्णुता

खण्डः ‘ख’- रचनात्मक कार्यम्

उत्तर 2:

  1. चरणवन्दना
  2. भवन्तम्
  3. रक्तदानशिविरम्
  4. शिविरस्य
  5. प्रायच्छत्
  6. दशमकक्षायाः
  7. दृष्ट्वा
  8. भवान्
  9. अलम्
  10. आज्ञाकारी

उत्तर 3:

  1. इदं प्रात:कालस्य दृश्यम् अस्ति।
  2. गगनमण्डले सूर्यः उदेति।
  3. द्वौ बालौ सुसज्जितौ भूत्वा ईश्वरं नमत:।
  4. एकः छात्रः अध्ययनाय विद्यालयं प्रति गच्छति।
  5. चित्रे सुन्दरं गृहं, हरितवृक्षाः पर्वताः चापि सन्ति।
  6. एका कन्या प्रसन्नतया पुष्पाणि सिञ्चति।

अथवा
(सदाचारः)

  1. सताम् आचारः सदाचारः कथ्यते।
  2. शीलं एव जीवनस्य परं भूषणम् अस्ति।
  3. सदाचारी जनः सभ्यः, विनीतः विनम्रः च भवति।
  4. सः कामक्रोधादीन् मनोविकारान् परित्यजति।
  5. सदाचारी जनस्य रुचिः सदैव सत्कर्मसु एव भवति।

खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्

उत्तर 4:

  1. द्वौ + एव
  2. ततस्ततः
  3. सम् + कल्पम्
  4. निधन + एकनिष्ठम्

उत्तर 5:

  1. जनानाम् अभावः
  2. समाधिरताः
  3. सुन्दरा कन्या
  4. स्थिता प्रज्ञायस्य सः

उत्तर 6:

  1. कृ + शतृ
  2. पोषण + अनीयर्
  3. सामाजिक
  4. अंशुमान्

उत्तर 7:
(अ) (i) कुतः
(ii) पुरा
(iii) शनैः
(iv) इतस्ततः

(ब) (i) यथा
(ii) तत्र
(iii) यदा
(iv) तर्हि

उत्तर 8:

  1. सेवते
  2. त्वया
  3. छात्रैः

उत्तर 9:

  1. पादोनद्विवादने
  2. सपादषड्वादने

उत्तर 10:

  1. वर्धयति
  2. नवीनान्
  3. कृता
  4. गमिष्यामि

खण्डः ‘घ’ – पठित-अवबोधनम्

उत्तर 11:
(अ) I. (i) पञ्चाशदधिकाः
(ii) वनसम्पदा

II. अस्य प्रदेशस्य न केवलं प्रकृतिः एव प्रत्युत् संस्कृतिः अपि विविधा मनोहरा च।

III. (i) (ग) नद्यः
(ii) (क) प्रकृतिः
(iii) (ग) विपुला
(iv) (ख) अरुणाचलाय

(आ) I. (i) ब्रह्मास्त्रम्
(ii) चक्रम्

II. सः सव्येन पाणिना चक्रम् गृहीतवान्।

III. (i) कृष्णाय
(ii) दिव्याम्
(iii) पाणिना
(iv) सः

(इ) I. (i) सभायाम्।
(ii) वाक्पटुः

II. वाक्पटुः धैर्यवान् सभायामप्यकातरः मन्त्री परैः न परिभूयते।

III. (i) मन्त्रिणे
(ii) अकातरः
(iii) मन्त्री (सः)
(iv) मन्त्री

उत्तर 12:
(अ) (i) एकः
(ii) स्वर्णकोटिकैः
(iii) निरर्थकः
(iv) हानिः

(ब) (i) भरतर्षभ
(ii) इन्द्रियाणि
(iii) पाप्मानं
(iv) ज्ञानविज्ञाननाशनम्

उत्तर 13:

  1. कस्मै/किमर्थम्
  2. कासाम् ?
  3. कस्याः ?
  4. का?

उत्तर 14:
I. (ii) विपक्षेतर्कः
II. (i) वृक्षाः
III. (ii) कृष्णं
IV. (i) अनलेन

We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 2 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 2, drop a comment below and we will get back to you at the earliest.

Primary Sidebar

NCERT Exemplar problems With Solutions CBSE Previous Year Questions with Solutoins CBSE Sample Papers
  • The Summer Of The Beautiful White Horse Answers
  • Job Application Letter class 12 Samples
  • Science Lab Manual Class 9
  • Letter to The Editor Class 12 Samples
  • Unseen Passage For Class 6 Answers
  • NCERT Solutions for Class 12 Hindi Core
  • Invitation and Replies Class 12 Examples
  • Advertisement Writing Class 11 Examples
  • Lab Manual Class 10 Science

Recent Posts

  • NEET Physics Notes Mechanics Thermodynamics Second Law of Thermodynamics
  • NEET Physics Notes Mechanics Thermodynamics First Law of Thermodynamics
  • NEET Physics Notes Mechanics Thermodynamics Concept of Thermodynamics
  • NEET Physics Notes Mechanics-Behaviour of Perfect Gas and Kinetic-Law of Equipartition of Energy
  • NEET Physics Notes Mechanics-Behaviour of Perfect Gas and KineticTheory- Concept of Pressure
  • Refraction of Waves : Definition, Laws and Explanation
  • NEET Physics Chapter Wise Mock Test – Electronic devices
  • NEET Chemistry Chapter Wise Mock Test – Aldehydes, Ketones and Carboxylic Acids
  • NEET Chemistry Chapter Wise Mock Test – Alcohols, Phenols and Ethers
  • NEET Chemistry Chapter Wise Mock Test – General Chemistry
  • NEET Chemistry Chapter Wise Mock Test – Haloalkanes and Haloarenes
  • NCERT Solutions for Class 12 Computer Science (C++) – C++ Revision Tour
  • NEET Physics Notes Mechanics-Properties of Matter-Hooke’s Law
  • What are the 2 Laws of Reflections?
  • NEET Physics Chapter Wise Mock Test – Wave Optics

Footer

Maths NCERT Solutions

NCERT Solutions for Class 12 Maths
NCERT Solutions for Class 11 Maths
NCERT Solutions for Class 10 Maths
NCERT Solutions for Class 9 Maths
NCERT Solutions for Class 8 Maths
NCERT Solutions for Class 7 Maths
NCERT Solutions for Class 6 Maths

SCIENCE NCERT SOLUTIONS

NCERT Solutions for Class 12 Physics
NCERT Solutions for Class 12 Chemistry
NCERT Solutions for Class 11 Physics
NCERT Solutions for Class 11 Chemistry
NCERT Solutions for Class 10 Science
NCERT Solutions for Class 9 Science
NCERT Solutions for Class 7 Science
MCQ Questions NCERT Solutions
CBSE Sample Papers
NCERT Exemplar Solutions LCM and GCF Calculator
TS Grewal Accountancy Class 12 Solutions
TS Grewal Accountancy Class 11 Solutions