CBSE Sample Papers for Class 10 Sanskrit Paper 4 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 4.
CBSE Sample Papers for Class 10 Sanskrit Paper 4
Board | CBSE |
Class | X |
Subject | Sanskrit |
Sample Paper Set | Paper 4 |
Category | CBSE Sample Papers |
Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 4 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.
समय: होरात्रयम्
पूर्णाङ्काः 80
निदेशाः
- प्रश्नपत्रं चत्वारः खण्डाः सन्ति
- खण्ड: (क) अपठित-अवबोधनम् 10 अङ्कः
- खण्ड: (ख) रचनात्मकं-कार्यम् 15 अङ्काः
- खण्ड: (ग) अनुप्रयुक्तव्याकरणम् 25 अङ्काः
- खण्डः (घ) पठित-अवबोधनम् 30 अङ्काः
- सर्वे प्रश्नाः अनिवार्याः।
- प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
- प्रश्नसंख्या अवश्यमेव लेखनीया।
- उत्तराणि संस्कृतेनैव लेखनीयानि।
खण्डः ‘क’-अपठित-अवबोधनम्
प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत – (10)
सप्तदशशतके अब्दुल्लः नाम कश्चन राजा अभवत्। यदा अब्दुल्ल: पट्टाभिषेकं प्राप्तवान् तदा स द्वादशवर्षीयः आसीत्। सः प्रसिद्धे गोलकोण्डादुर्गे वसति स्म। तत् दुर्गम् उन्नतया भित्या आवृत्तम् आसीत्। दुर्गस्य अन्त: तादृशी ध्वनिव्यवस्था आसीत् यस्याः च साहाय्येन सन्देशस्य स्वीकारः प्रेषणं च शक्यते स्म। तत् दुर्गम् कस्यचित् पर्वतस्य शिखरे एव आसीत्। राजा अब्दुल्लः स्वस्य दुर्गात् ‘मैल्दूरे’ स्थिते लघुपर्वते एकं विश्रान्तिस्थलं निर्मापितवान् आसीत् । तत्र गमनाय द्वादश द्वाराणि आसन्। अतः एषः ‘बारादरी (द्वादशद्वारा) इति निर्दिश्यते स्म। गोलकोण्डादुर्गम् हैदराबादनगरात् अनतिदूरे अस्ति। तत् नगरम् आन्ध्रप्रदेशस्य राजधानी वर्तते। एतस्मिन् राज्ये बहूनि प्रवासिकेन्द्रानि सन्ति। तेषु गोलकोण्डदुर्गम् बहुप्रसिद्धम्। एतस्मिन् दुर्गे दृश्यश्रव्यमाध्यमेन इतिहासः यत् दय॑ते तत् तु पर्यटकान् विशेषतः आकर्षति ।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) अस्य दुर्गस्य इतिहास: केन दय॑ते ?
(ii) राजा लघुपर्वते किम् निर्मापितवान् ?
(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
(i) किम् पर्यटकान् विशेषतः आकर्षति ?
(ii) दुर्गस्य ध्वनिव्यवस्था कीदृशी आसीत् ?
(III) निर्देशानुसारं उत्तरत – (1/2 × 4 = 2)
(i) ‘बहूनि’ इति विशेषणपदस्य किम् विशेष्यपदं अत्र प्रयुक्तम् ?
(क) विश्रान्ति
(ख) बारादरी
(ग) प्रवासिकेन्द्राणि
(घ) राजधानी
(ii) ‘गिरेः’ इति पदस्य किम् पर्यायपदं अत्र प्रयुक्तम् ?
(क) दुर्गे
(ख) पर्वतस्य
(ग) शिखरे
(घ) सन्देशस्य
(iii) ‘यस्याः’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) राजधानी
(ख) द्वाराणि
(ग) ध्वनिव्यवस्थायै
(घ) बारादरी
(iv) अत्र ‘अभवत्’ क्रियापदस्य कर्तृपदं किम् ?
(क) दुर्गम्
(ख) इतिहासः
(ग) राज्ये
(घ) अब्दुल:/राजा
IV. गद्यांशस्य समुचितं शीर्षकं लिखत।
खण्डः ‘ख’- रचनात्मक कार्यम्
प्रश्न 2:
उत्तरपुस्तिकायाम् पितृव्यं प्रतिलिखितम् इदं पत्रं उचित-पदैः पूरयत – (5)
22-शंकरनगरम्
……………… (1)
तिथि: ………………..
पूज्य ………………. (2)
सादरं प्रणामाः।
अत्र कुशलं तत्रास्तु इति कामये।
जनाः देशान्तरेभ्यः भारतस्य पर्वतीयक्षेत्रेषु …………(3) आगमिष्यन्ति। श्रीनगरं तेषु पर्वतीय क्षेत्रेषु अतीव प्रसिद्धम्। अस्ति। इदं नगरं तू भूतलस्य …….. (4) अस्ति। चतुर्दिक् हिमाच्छादित-पर्वतमाला अतिरमणीया। उत्तुङ्गपादपानां शोभा …………… (5) जनाः मंत्रमुग्धाः भवन्ति। स्वास्थ्यस्य दृष्ट्या अपि जनाः अत्र ………….. (6) शीतल-मन्दसुगन्ध वायोः स्पर्शः जनान …………. (7)। अतः अहम् भवन्तं श्रीनगरे स्वर्ग-इव सुखस्य अनुभवहेतोः ………. (8) करोमि।
आशासे यत् भवान् मम ………….. (9) स्वीकरोतु।
…………….(10) प्रिय
सिद्धार्थः।
मञ्जूषा- स्वर्गम् , प्रीणयति, पितृव्यचरणेषु, भ्रमणार्थम्, श्रीनगरात्, निमन्त्रणम्, भवतः, विलोक्य, आमन्त्रितं, आगच्छन्ति।
प्रश्न 3:
चित्रम् आधृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया च उत्तरपुस्तिकायाम् संस्कृते पञ्चवाक्यानि लिखत – (2 × 5 = 10)
मञ्जूषा
ग्रामपञ्चायतः, वृक्षः, सदस्याः, महिला, अधः ग्रामवासिनः, वार्ताम्, मञ्चः, ग्रामप्रधानः, गोलाकारः
अथवा
‘क्रोधः’ इति विषयमधिकृत्य संस्कृते पञ्चवाक्यानि लिखत।
मञ्जूषा- शत्रुः, निन्दति, हितवचनानि, मौनम्, वयं, सावधानाः, कोपात्, आत्मानं, श्रृणोति, धारणीयम्।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
प्रश्न 4:
अधोलिखितेषु वाक्येषु स्थूलपदेषु सन्धिच्छेदम् अथवा सन्धिं कृत्वा उत्तरपुस्तिकायाम् लिखत- (4)
- मुनिः + अयम् आश्रमे वसति।
- तेऽपि भ्रमणाय उद्यानं अगच्छन्।
- सदैव सत्यम् + वद।
- वाङ्मयं तप उच्यते।
प्रश्न 5:
अधोलिखितेषु स्थूलपदेषु समासं विग्रहं वा कृत्वा लिखत – (4)
- वर्षर्ती गगने जलदः भ्रमति।
- माता च पिता च क्लेशं सहेते। .
- रामः मृगस्य पश्चात् अधावत्।
- संसारे जितेन्द्रियः एव सुखी।
प्रश्न 6:
अधोलिखितेषु वाक्येषु स्थूलपदानां ”प्रकृतिः प्रत्ययः” च पृथक्-पृथक् कृत्वा अथवा संयोज्य लिख्यताम् – (4)
- (वर्ध + शानच्) पादपः मनोहारि अस्ति।
- शास्त्राणि पठित्वा जनः (ज्ञान् + वतुप्) भवति।
- दर्शनीयानि स्थानानि (द्रष्टव्यानि)।
- (साहस + इन्) सदा धैर्येण कार्यं करोति।
प्रश्न 7:
(अ) मञ्जूषायाम् दत्तैः अव्ययपदैः रिक्तस्थानानि पूरयत – (2)
इति, इदानीम्, सर्वत्र, अचिरेण
(i) …………… अहं गृहकार्यं करिष्यामि।
(ii) ईश्वरः ……………. अस्ति।
(iii) ……………… अत्र आगच्छ।
(iv) भोज: ……………. नाम राजा आसीत्।
(ब) उचितेन अव्ययपदेन रिक्तस्थानानि पूरयत – (2)
(i) यथा बीजम् ………….. फलम्।
(ii) …………. मंगलवासरः आसीत् श्वः गुरुवासरः भविष्यति।
(iii) यदा धर्मनाशः भवति ………… ईश्वरः अवतरति।
(iv) ………….. कोलाहलं करिष्यसि तर्हि दण्डं प्राप्स्यसि।
प्रश्न 8:
उत्तरपुस्तिकायाम् अधोलिखितेषु वाक्येषु वाच्यपरिवर्तनं कुरुत –
- सैनिकाः देशं रक्षन्ति। सैनिकैः देशः ……………।
- जनाः तत्र तिष्ठन्ति। जनैः तत्रे ………….।
- अश्वाः तीव्र धावन्ति। अश्वैः तीव्र …………..।
प्रश्न 9:
घटिकां दृष्ट्वा उत्तरपुस्तिकायाम् लिखत यत् तव जननी कतिवादने किम् करोति। (2)
- मम जननी (9.15) ………… भोजनं पचति।
- सा (11.30) ………… विश्रामं करोति।
प्रश्न 10:
अशुद्धिशोधनम् –
- अद्य माम् विद्यालये वार्षिकोत्सवः अस्ति।
- मुख्यातिथिः छात्रेभ्यः पुरस्कारान् यच्छिष्यति।
- अनेकाः कार्यक्रमाः अपि भविष्यन्ति।
- अन्ते पुरस्कृताः छात्रा: प्रसन्नाः भूत्वा स्व-स्वगृहं प्रति गमिष्यति।
खण्डः ‘घ’- पठित-अवबोधनम्
प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा एतदाधारितानाम् प्रश्नानाम् उत्तराणि लिखत – (6)
अथ दुष्टबुद्धिः प्रच्छन्नभाग्यस्य धनागमवृत्तान्तं श्रुत्वा कदाचित् मध्यरात्रे तस्य एवं गृहे चौर्यार्थं सन्धिखननसुयोगम् विलोकयन् स्थितः। तस्मिन्नेव काले सुप्तोत्थितः प्रच्छन्नभाग्यः सम्भ्रान्तचित्त: स्वपत्नीं सम्बोध्य उवाच-अहो विचित्र: स्वप्नो मया दृष्टः। अस्माकं क्षेत्रे अश्वत्थतरुमूले सुवर्णपूरितः कलशः विद्यते। इति तच्छ्रुत्वा परद्रव्ये अनासक्ता सा न्यवेदयत्-नाथ! विरम अस्माद् लोभात्।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) अश्वत्थतरुमूले कीदृशः कलश: विद्यते ?
(ii) दुष्टबुद्धिः किम् विलोकयन् स्थितः ?
(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
किम् श्रुत्वा दुष्टबुद्धिः चौरकायें प्रवृत्तः ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) अस्मिन् गद्यांशे ‘सा’ इति सर्वनाम कस्मै प्रयुक्तः ?
(ii) ‘आसक्ता’ इति पदस्य अत्र किम् विपरीतपदं प्रयुक्तम् ?
(iii) विलोकयन्’ इति पदस्य कर्तृपदं अत्र किम् ?
(iv) ‘प्रच्छन्नभाग्यः सम्भ्रान्तचित्त:’ अनयोः पदयोः किम् विशेषणपदम् ?
(आ) अधोलिखितं संवादम् पठित्वा प्रश्नानाम् उत्तराणि लिखत – (6)
युधिष्ठिरः – सम्प्रति आश्वस्तः अस्मि। मन्ये सः ब्रह्मास्त्रप्रयोगं न करिष्यति।
श्रीकृष्णः – तर्हि न जानासि तस्य मनोवृत्तिम्। पितुः उपदेशेन असन्तुष्टः स एकदा द्वारकापुरीम् आगच्छत्। ब्रह्मास्त्रं दत्त्वा सः सुदर्शनचक्रम अवाञ्छत्।
युधिष्ठिरः – (साश्चर्यम्) कथं चक्रम् इति!
(I) एकपदेन उत्तरत – (1 x 2 = 2)
(i) आचार्यस्य उपदेशेन असंतुष्टः सः एकदा कुत्रागच्छत् ?
(ii) सः किम् अवाञ्छत् ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
युधिष्ठिरः किम् मन्यते ?
(III) निर्देशानुसारम् उत्तरत –
(i) ‘आश्वस्तः’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(ii) अत्र ‘तस्य’ सर्वनामपदं कस्मै प्रयुक्तम् ?
(iii) ‘इच्छां अकरोत्’ अस्मिन् अर्थे किम् क्रियापदम् प्रयुक्तम् ?
(iv) ‘जानासि’ इति क्रियापदस्य कर्तृपदं किम् ?
(इ) अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत – (6)
कस्य वशे प्राणिगणः? सत्यप्रियभाषिणो विनीतस्य।
क्व स्थातव्यम् ? न्याय्ये पथि दृष्टादृष्टलाभाये।।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) कः विनीतस्य वशे भवति ?
(ii) कयोः भाषिणः जनस्य वशे प्राणिगणः भवति ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
जनैः कुत्र स्थातव्यम् ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘विनीतस्य’ इति पदस्य किम् विशेषणपदं अत्र प्रयुक्तम् ?
(क) कस्य
(ख) प्राणिगणः
(ग) सत्यप्रियभाषिणः
(ii) अत्र ‘मार्गे’ इत्यस्य पदस्य किम् पर्यायपदं प्रयुक्तम् ?
(क) पथि
(ख) वशे
(ग) न्याय्ये
(iii) ‘अस्मिन् श्लोके किम् क्रियापदं प्रयुक्तम् ?
(क) प्राणिगणः
(ख) स्थातव्यम्
(ग) क्व
(iv) ‘अस्मिन्’ श्लोके किम् पदं विपरीतपदसहितं प्रयुक्तम् ?
(क) दृष्टादृष्ट
(ख) सत्यप्रियभाषिणः
(ग) प्राणिगणः
प्रश्न 12:
अधोलिखित श्लोकयोः अन्वयं उचितपदक्रमेण सम्पूरयत – (1/2 × 8 = 4)
(अ) नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः।
नास्ति रागसमं दुखं नास्ति त्यागसमं सुखम्॥
अन्वयः- (i) ………… चक्षुः न अस्ति, (ii) ………… तपः न अस्ति।
रागसमं (iii) ……….. न अस्ति (iv) ………. सुखं न अस्ति।
(ब) पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्ति: तत्कृतज्ञता।
अन्वयः- पिता (i) बाल्ये महत् (ii)…………….. यच्छति। अस्य (iii) ………….. किं तपः तेपे इति (iv) ……….. तत्कृतज्ञता।
मञ्जूषा- पुत्राय, विद्यासमं, दुखं, विद्याधनं, पिता, त्यागसमम्, सत्यसमम्, उक्तिः
प्रश्न 13:
अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत – (4)
- स राजा तान् उवाच।
- काकपिकयोः भेदः वसन्तसमये ज्ञायते।
- कालः चक्रम् इव निरन्तरं गतिशीलः।
- कामात् क्रोधोऽभिजायते।
प्रश्न 14:
अधोलिखितासु पंक्तिषु स्थूलाक्षरपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थम् चित्वा उत्तरपुस्तिकायाम् लिखत – (4)
I. कोऽपि इह संसारे कनिष्ठ: वरिष्ठः वा नास्ति।
(i) विमुखः
(ii) वरेषु श्रेष्ठः
(iii) सर्वोत्तमः
II. तस्मात्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ।
(i) भरतवंशे श्रेष्ठ!
(ii) भारतवर्षे श्रेष्ठ!
(iii) भारतदेशीय!
III. एतत् श्रुत्वा अमात्याः विषण्णाः अभवन्।
(i) अनुमतया
(ii) मन्त्रिणः
(iii) राजानः
IV. दग्धां हयशालां विज्ञाय ………।
(i) अश्वशालाम्
(ii) मेषशालाम्
(iii) कपिशालाम्
उत्तराणि
खण्डः ‘क’-अपठित-अवबोधनम्
उत्तर 1:
I. (i) दृश्यश्रव्यमाध्यमेन
(ii) विश्रान्तिस्थलम्
II. (i) यत् दृश्यश्रव्यमाध्यमेन इतिहास: दर्यते तत् तु पर्यटकान् विशेषतः आकर्षति।
(ii) दुर्गस्य अन्तः तादृशी ध्वनिव्यवस्था आसीत् यस्याः च साहाय्येन सन्देशस्य स्वीकारः प्रेषणं च अभवत्।
III. (i) (ग) प्रवासिकेन्द्राणि
(ii) (ख) पर्वतस्य
(iii) (ग) ध्वनिव्यवस्थायै
(iv) (घ) अब्दुल्ल:/राजा
IV. हैदराबादनगरस्य महत्वम्, वीरः अब्दुल्लः वा
खण्डः ‘ख’- रचनात्मक कार्यम्
उत्तर 2:
- श्रीनगरात्
- पितृव्यचरणेषु
- भ्रमणार्थम्
- स्वर्गम्।
- विलोक्य
- आगच्छन्ति
- प्रीणयति
- आमन्त्रितम्
- निमन्त्रणम्
- भवतः
उत्तर 3:
- इदं ग्रामपञ्चायतस्य दृश्यम् अस्ति।
- वृक्षस्य अधः मञ्चे ग्रामप्रधानः अस्ति।
- तत्र अनेके सदस्याः अपि सन्ति।
- एका वृद्धा एकेन युवकेन सह विवादं करोति।
- ग्रामवासिनः ध्यानेन सर्वं शृण्वन्ति।
- पञ्चायते पञ्चसदस्याः सन्ति, येषु ग्रामप्रधानः प्रमुखः भवति।
अथवा
‘क्रोधः’
- क्रोधः मनुष्यस्य महान् शत्रुः।
- क्रुद्धः जनः गुरून् अपि निन्दति, हितवचनानि अपि न शृणोति।
- तस्माद् वयं क्रोधे सावधानाः भवेम।
- यदि क्रोधः आगच्छति तदा तस्मिन् एव क्षणे मौनं धारणीयम्
- मौनेन मनः शान्तं भवति।
- कोपात् सर्वदा आत्मानं रक्षेम।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
उत्तर 4:
- मुनिरयम्
- ते + अपि
- सत्यं वद
- वाक् + मयम्
उत्तर 5:
- जलं ददाति इति
- मातापितरौ
- अनुमृगम्
- जितानि इन्द्रियाणि येन सः
उत्तर 6:
- वर्धमानः
- ज्ञानवान्
- दृश् + तव्यत्
- साहसी
उत्तर 7:
(अ) (i) इदानीम्
(ii) सर्वत्र
(iii) अचिरेण
(iv) इति
(ब) (i) तथा
(ii) ह्यः
(iii) तदा
(iv) यदि
उत्तर 8:
- रक्ष्यते
- स्थीयते
- धाव्यते
उत्तर 9:
- संपादनववादने
- सार्ध-एकादशवादने
उत्तर 10:
- मम
- दास्यति
- अनेके
- गमिष्यन्ति
खण्डः ‘घ’- पठित-अवबोधनम्
उत्तर 11:
(अ) I. (i) सुवर्णपूरितः
(ii) सन्धिखननसुयोगम्
II. दुष्टबुद्धिः प्रच्छन्नभाग्यस्य धनागमवृत्तान्तं श्रुत्वा चौरकायें प्रवृत्तः।
III. (i) प्रच्छन्नभाग्यस्य पत्न्यै
(ii) अनासक्ता
(iii) दुष्टबुद्धिः
(iv) सम्भ्रान्तचित्तः
(आ) I. (i) द्वारकापुरीम्
(ii) सुदर्शनचक्रम्
II. सः ब्रह्मास्त्रप्रयोगं न करिष्यति इति युधिष्ठिरः मन्यते।
III. (i) युधिष्ठिरः
(ii) द्रोणपुत्राय
(iii) अवाञ्छत्
(iv) त्वम् (युधिष्ठिरः)
(इ) I. (i) प्राणिगणः
(ii) सत्यप्रियेः।
II. जनैः दृष्टादृष्टलाभाढ्ये न्याय्ये पथि स्थातव्यम्।
III. (i) (ग) सत्यप्रियभाषिणः
(ii) (क) पथि
(iii) (ख) स्थातव्यम्
(iv) (क) दृष्टादृष्ट
उत्तर 12:
(अ) (i) विद्यासमम्
(ii) सत्यसमम्
(iii) दुख
(iv) त्यागसमम्
(ब) (i) पुत्राय
(ii) विद्याधनम्।
(iii) पिता
(iv) उक्तिः
उत्तर 13:
- कान्?
- कदा?
- कः?
- कस्मात्?
उत्तर 14:
I. (iii) सर्वोत्तमः
II. (i) भरतवंशे श्रेष्ठ!
III. (ii) मंत्रिणः
IV. (i) अश्वशालाम्
We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 4 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 4, drop a comment below and we will get back to you at the earliest.