CBSE Sample Papers for Class 10 Sanskrit Paper 5 are part of CBSE Sample Papers for Class 10 Sanskrit. Here we have given CBSE Sample Papers for Class 10 Sanskrit Paper 5.
CBSE Sample Papers for Class 10 Sanskrit Paper 5
Board | CBSE |
Class | X |
Subject | Sanskrit |
Sample Paper Set | Paper 5 |
Category | CBSE Sample Papers |
Students who are going to appear for CBSE Class 10 Examinations are advised to practice the CBSE sample papers given here which is designed as per the latest Syllabus and marking scheme as prescribed by the CBSE is given here. Paper 5 of Solved CBSE Sample Paper for Class 10 Sanskrit is given below with free PDF download solutions.
समय: होरात्रयम्
पूर्णाङ्काः 80
निदेशाः
- प्रश्नपत्रं चत्वारः खण्डाः सन्ति
- खण्ड: (क) अपठित-अवबोधनम् 10 अङ्कः
- खण्ड: (ख) रचनात्मकं-कार्यम् 15 अङ्काः
- खण्ड: (ग) अनुप्रयुक्तव्याकरणम् 25 अङ्काः
- खण्डः (घ) पठित-अवबोधनम् 30 अङ्काः
- सर्वे प्रश्नाः अनिवार्याः।
- प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि।
- प्रश्नसंख्या अवश्यमेव लेखनीया।
- उत्तराणि संस्कृतेनैव लेखनीयानि।
खण्डः ‘क’-अपठित-अवबोधनम्
प्रश्न 1:
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत – (10)
कस्मिंश्चित् अरण्ये कश्चन शृगालः केनचित् वृकेन मिलितः । तयोः मध्ये वार्तालापः आरब्धः। तदवसरे वृकः शृगालम् अपृच्छत् – “भवता कियत् अधीतम्?” इति। “किम् अध्ययनचर्चया? मया तु किमपि न अधीतम् एव” इति अवदत् शृगालः। “अहं तु अधिकसुशिक्षितः अस्मि। अतः इतः परं भवता ‘आर्य!’ इति सदा अहं सम्बोधनीयः” वृकः गर्वेण अवदत् । तस्मिन् एव समये कश्चन व्याघ्रः गर्जन् वृक्षाणाम् मध्यतः बहिः आगतवान्।
तदा शृगालः विनयेन वृकम् अपृच्छत् – “आर्य! इदानीं किं करणीयम्?” इति व्याघ्रस्य दर्शनात् वृक: नितरां भीतः शुष्ककण्ठः अभवत्। सः शृगालं प्रतिवचनं किमपि न अवदत् । व्याघ्रः तयोः भक्षणाय तत्परः अभवत्। सः पुच्छं चालयन् दर्पण अवदत् ‘‘किं भवन्तौ इतः पलायनं चिन्तयतः ? सर्वथा असाध्यं तत्’ इति । तदा बुद्धिमान् शृगालः अवदत्-” श्रीमन् ! आवां भवतः दर्शनाय एव प्रस्थितौ आस्व। सौभाग्यवशात् आवाभ्यां भवतः दर्शनं अत्रैव कृतम्।’
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) कस्य दर्शनात् वृक: भीतः अभवत् ?
(ii) वृकः शृगालेन कथं सम्बोधनीयः ?
(II) पूर्णवाक्येन उत्तरत – (2 × 2 = 4)
(i) आगते सति व्याघ्र शृगालः वृकं किम् अपृच्छत् ?
(ii) बुद्धिमान् शृगालः व्याघ्रं किम् अवदत् ?
(III) निर्देशानुसारं उत्तरत – (1/2 × 4=2)
(i) अत्र ‘प्रत्युत्तरं’ इत्यर्थे किम् पदं प्रयुक्तम् ?
(क) अवदत्
(ख) प्रतिवचनं
(ग) पलायन
(घ) अपृच्छत्
(ii) ‘चिन्तयतः’ इति क्रियापदस्य कर्तृपदं किम् ?
(क) व्याघ्रः
(ख) वृकः
(ग) भवन्तौ
(घ) शृगालः
(iii) शुष्ककण्ठः’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(क) वृकः
(ख) शृगालः
(ग) भवतः
(घ) व्याघ्रः
(iv) ‘भवता’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(क) वृकाय
(ख) व्याघ्राय
(ग) शृगालाय
(घ) सर्वेभ्यः
(IV) कथायाः कृते समुचितं शीर्षकं लिखत।
खण्डः ‘ख’- रचनात्मक कार्यम्
प्रश्न 2:
उत्तरपुस्तिकायाम् परीक्षासाफल्यात् मित्राय वर्धापन-पत्रमिदं मञ्जूषायाः उचितपदैः पूरयत – (5)
आर्मी ऐकलेब,
अम्बाला-नगरात्।
तिथिः ………….
……….(1) अमित!
सस्नेहं नमोनमः।
तव ………… (2) अद्यैव प्राप्तम्। तव सफलतां ज्ञात्वा मम महान् संतोषः प्रसन्नता च। यद्यपि त्वं ………. (3) चिराय कष्टं गतः, तथापि परीक्षायां प्रथम श्रेणीं लब्ध्वा ………….(4) इति सत्यं प्रमोदकरः। त्वं मम पारिवारिकजनस्य च …………. (5) अर्हसि। तव सफलतापत्रं प्राप्य अचिरमेव मिष्ठान्नं आनीय मया तस्य ………… (6) गृहे बहिश्च कृतम् । मित्र! येषु विषयेषु त्वया हीनाः अङ्काः प्राप्ताः तेषु ……….. (7) परीक्षायां अधिकान् अङ्कान् प्राप्तुं सततं सावधानस्तिष्ठतु।
पत्रस्यान्ते अहं ते ………… (8) वर्धापनं कामये। ………. (9) सादरं नमोनमः।
तव ………….. (10)
वैभवः।
मञ्जूषा- वितरणं, प्रिय-मित्र, उत्तीर्णवान्, भूयोभूयः, परीक्षासफलता-पत्रम्, साधुवादान् उत्तरवर्तियां, आकस्मिकज्वरवशात्, मातापितृभ्यां, स्निग्धमित्रम्।
प्रश्न 3:
चित्रम् आधृत्य मञ्जूषायां प्रदत्तशब्दानां सहायतया च उत्तरपुस्तिकायाम् संस्कृते पञ्चवाक्यानि लिखत – (2 × 5 = 10)
मञ्जूषा
वृक्षाः गृहम्, स्वच्छजलम्, नौका, नाविकः नदी, हरीतिमा, शुद्धवातावरणम्, वनम्, नौकाविहारम्
अथवा
‘विद्यायाः महत्त्वं’ इति विषयं अधिकृत्य पञ्चवाक्यानि लिखत।
मजूषा- विद्या सर्वश्रेष्ठधनं, व्ययकृते वर्धते, पशुतुल्यः, विद्यां विना, विनयं ददाति, विद्याविहीनः, लोके सर्वत्र अभिनन्दति, सुखी न भवति, विद्वान सम्मानं लभते, विदेशगमने बन्धुजनः।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
प्रश्न 4:
अधोलिखितेषु वाक्येषु स्थूलपदेषु सन्धिच्छेदम् अथवा सन्धिं कृत्वा लिखत – (4)
- रविः सदैव मात्रादेशं पालयति।
- बृहच्छिलायाम् उपविश।
- कस्य अपि तिरः + कारः न करणीयः।
- यथोचितं क्रियताम्।
प्रश्न 5:
अधोलिखिते अनुच्छेदे स्थूलपदेषु समासं अथवा विग्रहं वा कृत्वा लिखत – (4)
पाठाय शालायाम् अध्यापक: छात्रान् पाठयति। अध्यापक: पापं च पुण्यं च बोधयति। नूनम् सः महान् च असौ आत्मा अस्ति। तत्र एका मृगनयनी अध्यापिका अपि अस्ति।
प्रश्न 6:
अधोलिखितेषु वाक्येषु स्थूलपदानां प्रकृतिः प्रत्ययः” च पृथक् पृथक् कृत्वा अथवा संयोज्य लिख्यताम् – (4)
- भिक्षुकं दृष्ट्वा (साधु + ङीप्) अब्रवीत्।
- मनुष्यः (सामाजिकः) प्राणी अस्ति।
- शिशवः स्नेहेन (पाल् + अनीयर्)।
- (धाव् + शतृ) बालः पतति।
प्रश्न 7:
(अ) उत्तरपुस्तिकायाम् मञ्जूषायाम् दत्तैः अव्ययपदैः रिक्तस्थानानि पूरयत – (2)
मञ्जूषा- अधुना, इतस्ततः, एकदा, एवम्
(i) ……… अहं क्रीडाक्षेत्रं गच्छामि।
(ii) माता पुत्रं ………. अवदत्।
(iii) विद्यालये छात्राः ……… परिभ्रमन्ति।
(iv) ………. सः आखेटाय वनं अगच्छत्
(ब) उत्तरपुस्तिकायाम् उचितेन अव्ययपदेन रिक्तस्थानानि पूरयत – (2)
(i) ………….. देशः तथा वेषः।
(ii) यावत् सः वदति ……………. अहं मौनं धारयामि।
(iii) यदा धनं भवति ………….. दानं सम्भवति।
(iv) यत्र गन्तुम् इच्छसि ……….. गच्छ।
प्रश्न 8:
उत्तरपुस्तिकायाम् अधोलिखितेषु वाक्येषु वाच्यपरिवर्तनं कुरुत – (3)
- साधुः सत्यं वदति। साधुना सत्यं ……………।
- मूर्खाः सज्जनान् निन्दन्ति। ………….. सज्जनाः निन्द्यन्ते।
- देवः पाठं स्मरति। देवेन पाठः ………..।
प्रश्न 9:
उत्तरपुस्तिकायाम् घटिकां दृष्ट्वा लिखत यत् भरतस्य पिता कतिवादने किम् करोति ?
- भरतस्य पिता प्रातः (4.30) ………….. उत्तिष्ठति।
- सः प्रातः (5.45) …………. समाचार पत्रं पठति।
प्रश्न 10:
अशुद्धिशोधनम् –
- मम गृहस्य समीपे एकः उद्यानम् अस्ति।
- सायंकाले बालाः तत्र धावन्ति क्रीडति च।
- वृद्धः जनाः तत्र भ्रमन्ति।
- उद्याने सर्वत्र पुष्पाः विकसन्ति।
खण्डः ‘घ’ -पठित-अवबोधनम्
प्रश्न 11:
(अ) अधोलिखितं गद्यांशं पठित्वा एतदाधारितानाम् प्रश्नानाम् उत्तराणि प्रदत्तस्थानेषु लिखत – (6)
अथ एकदा भगवान् बोधिसत्त्वः बहुजन्मार्जितपुण्यफलैः शिवीनां राजा बभूव। स बाल्यात् एव वृद्धोपसेवी, विनयशीलः, शास्त्रपारङ्गतः च आसीत् । जनकल्याणकर्मसु रतः असौ पुत्रवत् प्रजाः पालयति स्म। कारुण्य-औदार्यादिसद्गुणोपेतः स नगरस्य समन्ततः धन-धान्यसमृद्धाः दानशालाः अकारयत्। तत्र अर्थिनां समूहः अन्न-पान-वसन-रजत-सुवर्णादिकानि अभीष्टानि वस्तूनि प्राप्य सन्तुष्टः अभवत् । राज्ञः दानशीलताम् आकर्त्य देशान्तरेभ्योऽपि जनाः तं देशम् आयान्ति स्म।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) राजा काः पुत्रवत् पालयति स्म?
(ii) के तं देशम् आयन्ति स्म?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
अर्थिनां समूहः किं किं लब्ध्वा सन्तुष्टः भवति स्म?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘दानशालाः’ पदस्य विशेषणपदं किम् ?
(क) अर्थिनः
(ख) जनकल्याणकर्मसु
(ग) धन-धान्य समृद्धाः
(ii) ‘असौ’ सर्वनाम कस्मै प्रयुक्तम् ?
(क) राज्ञे
(ख) शिवीनां
(ग) पुण्यफलैः
(iii) लब्ध्वा’ इत्यर्थे किं पदम् अत्र प्रयुक्तम् ?
(क) समन्ततः
(ख) प्राप्य
(ग) समूहः
(iv) ‘आयान्ति स्म’ इति क्रियायाः कर्ता कः?
(क) राज्ञः
(ख) देशान्तरेभ्यः
(ग) जनाः
(आ) अधोलिखितं संवादं पठित्वा प्रश्नानाम् उत्तराणि लिखत – (6)
राजहंसः – अये। किन्नु खलु सरस्तीरे विहरति मयि केनापि कर्कशैः ‘का-का’ शब्दैः वातावरणम् आकुलीक्रियते ?
राजहंसी – भर्तः। काकात् अन्यत् को भवितुमर्हति ? अस्य वर्णः अपि कृष्णः कर्म अपि कृष्णम्। मेध्यम् अमेध्यं सर्वमेव भक्षयति।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) कस्य वर्णः कृष्णः अस्ति?
(ii) अस्मिन् सम्वादे ‘भर्तः’ इति पदम् कस्मै प्रयुक्तम् ?
(II) पूर्णवाक्येन उत्तरत – (1 × 2 = 2)
काकस्य ‘का-का’ शब्दैः किं भवति ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) ‘मेध्यम्’ पदस्य कः विलोमः अत्र प्रयुक्तः ?
(ii) ‘मयि’ इति सर्वनामपदं कस्मै प्रयुक्तम् ?
(iii) ‘कर्म’ इति पदस्य किं विशेषणपदं अत्र प्रयुक्तम्
(iv) ‘भक्षयति’ इति पदस्य कर्तृपदं किम् ?
(इ) अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत – (6)
अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः।।
(I) एकपदेन उत्तरत – (1 × 2 = 2)
(i) महात्मनः चित्ते किं भवेत् ?
(ii) यथा अवक्रता चित्ते भवति तथैव कुत्र भवेत् ?
(II) पूर्णवाक्येन उत्तरत – (2 × 1 = 2)
चित्ते वाचि च अवक्रता महात्मभिः किं कथ्यते ?
(III) निर्देशानुसारम् उत्तरत – (1/2 × 4 = 2)
(i) वक्रता’ इत्यस्य पदस्य विपरीतं पदं किम् ?
(ii) ‘भवेद्’ क्रियापदस्य कर्तृपदं किम् ?
(iii) ‘यथार्थरूपेण’ इत्यर्थे श्लोके कः शब्दः प्रयुक्त:?
(iv) ‘मनसि’ इति पदस्य कः पर्यायः श्लोके आगतः?
प्रश्न 12:
अधोलिखितश्लोकयोः अन्वयं उत्तरपुस्तिकायाम् उचितपदक्रमेण सम्पूरयत – (1/2 × 8 = 4)
(अ) आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।
तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपिविशेषतः॥
अन्वयः- आचारः प्रथमः (i) …………… इति एतद् (ii) …….. वचः,
तस्मात् सदाचारं (iii) …………. अपि (iv) ……… रक्षेत्।
(ब) चञ्चलं हि मनः कृष्ण! प्रमाथि बलवदृढम्।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्॥
अन्वयः- कृष्ण! मनः (i) ………… प्रमाथि (ii) ………. दृढम्
हि, तस्य (iii) …………. अहम् वायोः, इव (iv) ………… मन्ये।
मञ्जूषा – विदुषां, निग्रहं, चञ्चलम्, धर्मः, विशेषतः, बलवत्, प्राणेभ्यः, दुष्करम्।
प्रश्न 13:
अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य उत्तरपुस्तिकायाम् प्रश्ननिर्माणं कुरुत – (4)
- प्राज्ञः कलहयुक्तं गृहं दूरतः व्रजेत्।
- ब्रह्मणः आयुः शतं वर्षाणि।
- हिमाद्रितुङ्गशृङ्गैः सुशोभिता इयं भूमिः।
- संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
प्रश्न 14:
अधोलिखितासु पंक्तिषु स्थूलाक्षरपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थम् चित्वा उत्तरपुस्तिकायाम् लिखत- (4)
I. विचित्रा खलु दैवगतिः।
(i) देवानां गतिः
(ii) भाग्यविलासः
(iii) दिव्या गतिः
II. अपूर्वः कोऽपि कोषः अयम् ………।
(i) क्रोशः
(ii) निधिः
(iii) कूपः
III. मुखे कपाले च शालिचूर्ण लिम्पन्ति।
(i) अक्षतचूर्णम्
(ii) गोधूमचूर्णम्
(iii) भित्तिचूर्णम्
IV. सपदि उपायः क्रियताम्।
(i) पादेन सहितम्
(ii) शीघ्रम्
(iii) गेयपदे
उत्तराणि
खण्डः ‘क’-अपठित-अवबोधनम्
उत्तर 1:
I. (i) व्याघ्रस्य
(ii) आर्य!
II. (i) शृगालः वृकं अपृच्छत्-“आर्य! इदानीं किं करणीयम् ?”
(ii) शृगालः वृकम् कथयति-” श्रीमन्! आवां भवतः दर्शनाय एव प्रस्थितौ आस्व। सौभाग्यवशात् आवाभ्यां भवतः दर्शनं अत्रैव कृतम्।’
III. (i) (ख) प्रतिवचनं
(ii) (ग) भवन्तौ
(iii) (क) वृकः
(iv) (ग) शृगालाय
IV. “वरं बुद्धिः न सा विद्या”, ”वृक-शृगालयोः कथा”; बुद्धिमान् शृगालः
खण्ड: ‘ख’- रचनात्मक कार्यम्
उत्तर 2:
- प्रियमित्र
- परीक्षासफलता-पत्रम्
- आकस्मिकज्वरवशात्
- उत्तीर्णवान्
- साधुवादान्
- वितरणम्
- उत्तरवर्तिन्याम्
- भूयोभूयः
- मातापितृभ्याम्
- स्निग्धमित्रम्।
उत्तर 3:
- इदं नद्याः रमणीयं दृश्यम् अस्ति।
- नद्याः स्वच्छजले जनाः आनन्देन नौकाविहारं कुर्वन्ति।
- नदीम् उभयतः वृक्षाः सन्ति।
- तटे तिष्ठतौ बालौ अपि नौकविहाराय उत्सुकौ स्तः।
- वृक्षाणाम् मध्ये वर्तते एकं सुन्दरं गृहम्।
- प्रवहन्तं जलं वृक्षाः च शुद्धं वातावरणं जनयन्ति।
अथवा
(विद्यायाः महत्त्वं)
- मानवजीवने विद्या एव सर्वश्रेष्ठधनम् अस्ति।
- इदं धनं व्यये कृते वर्धते सञ्चयात् च क्षीयते।
- विद्या विना नरः पशुतुल्यः भवति।
- विद्वान लोके सर्वत्र सम्मानं लभते।
- विद्याविहीनः जनः सुखी न भवति।
खण्डः ‘ग’-अनुप्रयुक्तव्याकरणम्
उत्तर 4:
- मातृ + आदेशं
- बृहत् + शिलायाम्
- तिरस्कारः
- यथा + उचितम्
उत्तर 5:
- पाठशालायाम्
- पापपुण्ये
- महात्मा
- मृगनयने इव नयने यस्याः सा
उत्तर 6:
- साध्वी
- समाज + ठक्
- पालनीयाः
- धावन्
उत्तर 7:
(अ) (i) अधुना
(ii) एवम्
(iii) इतस्ततः
(iv) एकदा
(ब) (i) यथा
(ii) तावत्
(iii) तदा
(iv) तत्र
उत्तर 8:
- उद्यते
- मूर्खः
- स्मर्यते
उत्तर 9:
- सार्धचतुर्वादने
- पादोनषड्वादने
उत्तर 10:
- एकम्
- क्रीडन्ति
- वृद्धाः
- पुष्पाणि
खण्डः ‘घ’–पठित-अवबोधनम्
उत्तर 11:
(अ) I. (1) प्रजाः
(ii) (अर्थिनः) जनाः
II. अर्थिनां समूहः अन्न-पान-वसन-रजत-सुवर्णादिकानि अभीष्टानि वस्तूनि प्राप्य सन्तुष्टः अभवत्।
III. (i) (ग) धनधान्यसमृद्धाः
(ii) (क) राज्ञे
(iii) (ख) प्राप्य
(iv) (ग) जनाः
(आ) I. (i) काकस्य
(ii) राजहंसाय
II. काकस्य ‘को-का’ शब्दैः वातावरणम् आकुलीक्रियते।
III. (i) अमेध्यम्
(ii) राजहंसाय
(iii) कृष्णम्
(iv) काकः
(इ) I. (1) अवक्रता
(ii) वाचि
II. चित्ते वाचि च अवक्रता महात्मभिः तथ्यतः समत्वं कथ्यते।
III. (i) अवक्रता
(ii) अवक्रता
(iii) तथ्यतः
(iv) चित्ते
उत्तर 12:
(अ) (i) धर्मः
(ii) विदुषाम्
(ii) प्राणेभ्यः
(iv) विशेषतः
(ब) (i) चञ्चलम्
(ii) बलवत्
(iii) निग्रहं
(iv) दुष्करं
उत्तर 13:
- कः?
- कस्य ?
- कैः?
- के ?
उत्तर 14:
I. (ii) भाग्यविलासः
II. (ii) निधिः
III. (i) अक्षतचूर्णम्
IV. (ii) शीघ्रम्
We hope the CBSE Sample Papers for Class 10 Sanskrit Paper 5 help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Paper 5, drop a comment below and we will get back to you at the earliest.